पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। क्वचिद्रुणीभूतं क्वचित्प्रधानमित्यन्यदेतत् । साधारण्येन विशेषणसाम्यमूलायाः समासोक्त्त्स्तु 'अन्धेन पातभीत्या संचरता-' इत्यादिः प्रागस्माभिरुदा- हृतो विषय इति न निरवकाशत्वम् । तत्र ह्यसाधारणधर्मारोपमन्तरेण साधारणविशेषणमहिम्नेवाप्रकृतप्रतीतेः । एतेन 'तदेवं साधारण्येन समा- सोक्त्तेर्विशेषणसाम्येऽप्यप्रकृतसंबन्धिधर्मकार्यसमारोपमन्तरेण तद्वयवहा- रप्रतीतिर्न भवति' इति विमर्शिनीकृता यदुक्तं तन्निरस्तम् । तस्मादेवं संभवति विषयविभागे 'तन्वी मनोहरा-' इत्यत्र समासोक्तिवचनमहृद्यम् । यदपि "औपम्यगर्भत्वेनापि विशेषणसाम्यं संभवति । यथा- 'दन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी। केशपाशालिवृन्देन सुवेषा हरिणेक्षणा ॥' अत्र हरिणेक्षणामात्रवृत्तेः सुवेषत्वस्य विशेषणस्य महिम्ना दन्तप्रभा- सहशानि पुष्पाणीत्यादि योजनां विहाय दन्तप्रभाः पुष्पाणीवेत्याघुप- मितसमासाश्रयेण कृते योजने प्रकृतार्थसिद्धौ सत्यां वृत्त्यन्तरेण त्य- क्त्ताया एव योजनायाः पुनरुज्जीवने पुष्पपल्लवालिवृन्दैरुपमेयैराक्षिप्ताया लतायाः प्रत्ययात्तद्वयवहारारोपः । एवं सुवेषेत्यपहाय परीतेति कृते उपमारूपकसाधकबाधकप्रमाणाभावात्तदुभयसंशयरूपसंकराश्रयेण कते योजने पश्चात्पूर्वोक्तरीत्या लताप्रतीतेः समासोक्तिरेव । समासभेदेनार्थ- भेदेऽपि शब्दैक्यमादाय क्ष्लिष्टमूलायामिव विशेषणसाम्यं बोध्यम् । आ- दावन्ते वा रूपकाश्रयेण दन्तप्रभा एव पुष्पाणीति योजने कृते तु हरि- णेक्षणांशे आक्षिप्तलतातादात्म्यकेनैकदेशविवर्तिरूपकेणैवाप्रकृतार्थप्रत्ययो- पपत्तेर्नार्थः समासोक्तरत्र" इति तेनैवोक्तं तदपि न विचारसहम् । दन्त- व्यवस्थाङ्गीकारे च । उक्तमेव सदृष्टान्तमाह-यथेति । तत्र हि अन्धेनेत्यत्र हि । धर्मकार्येति । धर्मकार्ययोः समारोपमित्यर्थः । अयं तदीय उपसंहारग्रन्थः । उपसंह- रति-तस्मादिति । प्रकृतार्थेति । सुवेषत्वरूपेत्यर्थः । वृत्त्यन्तरेण व्यञ्जनया । योजनाया 'उपमानानि' इति समातरूपायाः । तद्व्यवहारेति । लताव्यवहा- रेत्यर्थः । उपमेति । यथासंख्यमन्वयः । पूर्वोक्तरीत्येति । वृत्त्यन्तरेणेत्याशुक्त- रीत्येत्यर्थः । नन्वेवं कथं विशेषणसाम्यमर्थभेदादत आह- समासेति । हरिणेक्षणांशे आक्षिप्तत्वेनाशाब्दत्वादाह-एकदेशेति । अत्र उक्तपद्ये । एवमग्रेऽपि । तेनैव अलं. कारसर्वस्वकारेणैव । तुल्ययुक्त्या आह-दन्तप्रभा इति । तथोक्तं तदा समासो-