पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३७४ काव्यमाला। हेतोस्तद्वाचकपदसमभिव्याहारस्याभावात् । न चेह 'निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः' इत्यत्र निरीक्षणानुगुणनयनोपादानं यथा पयोदस्य द्रष्टुपुरुषत्वस्य गमकं तथा किंचिजारत्वस्यास्ति । न वा 'त्वय्यागते किमिति वेपत एष सिन्धुस्त्वं सेतुमन्थकृदतः किमसौ विभेति' इत्यत्र सेतुमन्थकृत्त्वं विष्णोः कार्य यथा राज्ञो विष्णुत्वस्य तथा किंचिदस्ति । तस्माद्विशेषणसमर्पिताप्रस्तुतव्यवहारसमारोपमात्रमिह चारुताहेतुः । यद्यपि विशेषणसमर्पितयोद्वयोरप्यर्थयोरविशिष्टं प्राधान्यम्, तथाप्यन्यतराश्रये धर्मिण्यन्यतरारोपस्यावश्यकत्वे श्रुते प्रकृतव्यवहारधर्मिण्येवाप्रकृतव्यवहारस्यारोप उचितः । तस्य च स्वरूपतो ज्ञातस्यारोपे चारुत्वाभावात्कामुकाद्यप्रस्तुतधर्मिसंबन्धित्वेनावगम्यमानस्य रसानुगुणत्वादारोपः । कामुकादेश्च पदादनुपस्थितस्यापि चुम्बनादिना व्यञ्जितस्य व्यवहारविशेषणत्वम् । तस्मात् 'अयमैन्द्रीमुखं पश्य रक्तश्चुम्बति चन्द्रमाः' इत्यत्र जारसंबन्धितादृशचुम्बनरूपव्यवहाराश्रयश्चन्द्र इत्येव बोधः” इति । तदेतत्सर्वमसंगतम् । यत्तावदुच्यते 'मुखं चन्द्रः' इत्यत्र मुखे चन्द्रत्वारोप इति तन्न । नामार्थयोरभेदेनैवान्वयान्मुखे चन्द्रस्यारोपः, न चन्द्रत्वस्य चन्द्रविशेषणस्य । यदप्युच्यते जारादिपदसमभिव्याहारस्य हेतोर्विरहान्न चन्द्रादौ जारत्वारोप इति तत्र श्रौतारोपे तादृशसमभिव्याहारस्य हेतुत्वम्, न त्वर्थारोपे । अन्यथा रूपकध्वने- रुच्छेदापत्तेः । न च रूपकध्वनावारोप्यमाणासाधारणधर्मोक्तिरारोप्यमा- णतादात्म्यव्यञ्जिका, न चेह तथा किंचिदस्तीति वाच्यम् । इहापि परनायिकामुखचुम्बनस्य श्लेषमर्यादया व्यञ्जनमर्यादया वा प्रतीतस्य प्रक- एतेन शाब्द आरोपो न संभवतीत्युक्तम् । नन्वाक्षिप्तनायिकादिना आक्षिप्तरूपकं भवत्वत आह-न चेहेति । अस्तीत्यत्रान्वयः । इह रक्त इत्युदाहरणे । जारेत्यस्य गमकमित्यस्यानुषङ्गः । एवमग्रेऽपि । विनिगमकमाह-श्रुते इति । तथा च श्रुतप्रस्तुतार्थोंपस्कारकतया विच्छित्तिविशेषशालित्वमिति भावः । स्वरूपतः अप्रकृतव्यवहारत्वेन । चन्द्रविशेषणस्येति । तादात्म्येन चन्द्रारोपे तादात्म्यस्यापि संबन्धविधया आरोपविषयत्वात् तस्य चन्द्रत्वानतिरेकात् चन्द्रत्वारोपेत्युक्तम् । न तु प्रकारतया चन्द्रतारोपः । अन्यत्र विशेषणत्वेनोपस्थितस्यान्यत्र प्रकारतया आरोपायोगादिति तदाशयाच्चिन्त्यमिदम् । भामहादिमतेनाह-श्लेषेति । स्वमतेनाह-व्यञ्जनेति । इदं सर्वे पूर्व