पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३७५ रसगङ्गाधरः। तधर्मिणि चन्द्रे आरोप्यमाणस्य जारासाधारणधर्मत्वेन जारत्वव्यञ्जकतायाः स्फुटत्वात् । एतेन 'विद्युन्नयनैः' इत्यत्र 'त्वं सेतुबन्धनकृत्' इत्यत्र च यथा द्रष्टुत्वविष्णुत्वगमकं तथेह नास्तीति निरस्तम् । न च जारत्वस्य चन्द्रादावारोपमन्तरेणापि जारव्यवहारारोपः सिध्यन्ननुपपत्तेरभावान्न जारत्वं गमयेदिति वाच्यम् । गमकं हि द्विविधम्-आक्षेपकं व्यञ्जकं च । तत्राक्षेपकमनुपपद्यमानमेव गमयति । व्यञ्जकं तु नानुपपत्तिमपेक्षते । 'गतोऽस्तमर्कः' इत्यादौ तथैव दर्शनात् । अन्यथा अर्थापत्त्या गतार्थत्वेन व्यञ्जनावैयर्थ्यप्रसङ्गात् । किं च त्वयापि हि जारादेरप्रकृतधर्मिणः प्रतीतिरवश्यं वाच्या । आरोप्यमाणव्यवहारविशेषणार्थम् । अन्यथा स्वरूपतो ह्यप्रकृतव्यवहारारोपे चारुतानापत्तेः । एवं चावश्योपस्थाप्यस्य जारादेस्तादृशचुम्बनकर्तरि चन्द्रादावेव तादात्म्येन विशेषणत्वमुचितम्, न तु व्यवहाराभेदेन । चन्द्रस्य जारभिन्नतावगमे परनायिकावदनचुम्बनस्याहद्यत्वात् । अपि च 'निशामुखं चुम्बति चन्द्र एषः' इत्यत्र स्त्रीलिङ्गपुंलिङ्गाभ्यां मुखचुम्बनरूपार्थसचिवाभ्यां नायिकात्वं नायकत्वं च व्यज्यत इति हि निर्विवादम् । अन्यथा 'निशामुखं चुम्बति चन्द्रिकैषा', 'अहर्मुखं चुम्बति भानुबिम्बम्' इत्यत्रापि नायकप्रतीत्यापत्तेः। एवं च सामानाधिकरण्येनैव संसर्गेण व्यज्यमानं नायकत्वं निशाशशिनोर्नायकत्वारोप एव पर्यवस्यति । अपरित्यक्तस्वरूपयोर्निशाशशिनोर्नायकताख्यधर्मविशिष्टयोः प्रतीतेरिति त्वदुपजीव्यग्रन्थविरोधश्च । अविनाभावादप्रकृतव्यवहारेणाक्षिप्तेन धर्मिणैव प्रस्तुतो धर्म्यवच्छिद्यत इति तट्टीकाविरोधश्च । किं च चुम्बमेव दूषितम् । जारेति । सिध्यन् जारव्यवहारारोप इत्यर्थः। दर्शनादिति । अनुपपत्ति विनापि नानार्थव्यञ्जनदर्शनादित्यर्थः । अन्यथा अनुपपत्तेस्तद्धेतुत्वे । अन्यथा तदप्रतीत्या तद्विशेषणत्वानङ्गीकारे । एवं च तदर्थे तत्प्रतीतौ च ।सचिवाभ्यां सहिताभ्याम् । अन्यथा ताभ्यां न व्यञ्जनम् किं तु केवलचुम्बनेन तदङ्गीकारे । एवं च अतिप्रसङ्गभङ्गाय तत्सहिताभ्यां तदङ्गीकारे च । सामानेति । स्त्रीत्वपुंस्त्वेत्यादिः । पर्यवसितार्थानङ्गीकारे आह-अपरीति । त्वदुपजीव्येति । कुवलयानन्दोपजीव्यालंकारसर्वस्वेत्यर्थः । अत एव तदाज्ञानुवर्तिनेति प्रागुक्तम् । अविनाभावात् नियतसंबन्धात् । तदृीकेति । अलंकारसर्वस्वटीका विमर्शिनीत्यर्थः । तदुक्त्यन्तरं खण्डयति-किं