पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। ध्येत । तच्च श्लेषादिमित्तिकाभेदाध्यवसायेन व्यवहाराभेदं प्रतिपिपादयिषतः कवेरनभिप्रेतमेव । अभिप्रेतं तु नायकत्वम् । तच्च नायकस्य व्यवहारविशेषणत्वेन सिध्यति । किं च 'निशामुखं चुम्बति चन्द्र' इत्यत्र चन्द्रे नायकव्यवहारसमारोप एव, न नायकत्वारोपः । एवमेव निशायामपि न नायिकात्वारोपः । तुल्यन्यायत्वात् । एवं च मुखचुम्बनमात्रस्य नायिकानिर्मुक्तस्यासुन्दरत्वान्नायकासाधारणव्यवहारत्वायोगाच्च किमारोपेण । यदि च निशायां स्त्रीलिङ्गव्यङ्ग्यं नायिकात्वमिति निरीक्ष्यते तदा चन्द्रगतपुंलिङ्गव्यङ्ग्यं नायकत्वमपि निरीक्ष्यताम् । न द्वितीयः । नायकसंबन्धित्वेनाज्ञातस्य मुखचुम्बनमात्रस्याहृद्यत्वात् । 'तितीपुर्दुस्तरं मोहादुडुपेनास्मि सागरम्' इति निदर्शनातो वैलक्षण्यायास्मदुक्तवैधर्म्य- स्यैवास्थेयत्वाच्च । शिष्टमनुपदमेव वक्ष्यामः । यत्तु सर्वस्वकाराज्ञानुवर्तिना कुवलयानन्दकृता सपूर्वपक्षसिद्धान्तमुक्तम्-'अत्र च विशेषणसाम्यात्सारूप्याद्वा यदप्रस्तुतवृत्तान्तस्य प्रत्यायनं तत्प्रकृते विशेष्ये तत्समारोपार्थम् । सर्वथैव प्रस्तुतानन्वयिनः कविसंरम्भगोचरत्वायोगात् । ततश्च समासोक्तावप्रस्तुतव्यवहारसमारोपश्वारुताहेतुः । न तु रूपक इव प्रस्तुते अप्रस्तुतसमारोपोऽस्ति । 'मुखं चन्द्रः' इत्यत्र मुखे चन्द्रत्वारोपहेतुमुखशब्दसमभिव्याहारवत् 'रक्तश्चुम्बति चन्द्रमाः' इत्यादौ समासोक्त्युदाहरणे चन्द्रादौ जारत्वाद्यारोप- ब्रह्मणापि दुर्वचत्वादिति भावः । अत एवाह-नायकसाम्यमिति । तच्च साम्यं च । विशेषणत्वे सतीति शेषः। एवं सति व्यवहारसमारोपः क्वचिद्व्यर्थः स्यादित्याह-किं चेति । व्यवहारसमारोप एवेति । त्वया वाच्य इति शेषः । एवव्यावर्त्यमाह-न नायकेति । रूपसमारोपस्य त्वयानङ्गीकारादिति भावः । तथा सति दोषमाह-एवं चेति । व्यवहारमात्रारोपे चेत्यर्थः । नायिकेति । नायिकासंबद्धस्येत्यर्थः । नायकासाधारणेति । मुखचुम्बनस्य पुत्रादिसाधारण्यादिति भावः । इमं दोषमुद्धरति-यदि चेति । निरीक्ष्यति । तथा च रूपसमारोपो नेति त्वदुक्तिरसंगतेति भावः । अस्मदुक्तेति । अत्र चाप्रकृतेत्यादिनोक्तेत्यर्थः । अत्र समासोक्तौ च । विशेष्ये चन्द्रादौ । सर्वथैव आरोपानारोपान्यतरविधया । कविसंरम्भेति । स्वप्रतीत्युद्देश्यकशब्दसंदर्भरूपकविव्यापारेत्यर्थः । फलितमाह-ततश्चेति । अप्रस्तुतेति । अप्रस्तुतसंबन्धिव्यवहारेत्यर्थः । अप्रस्तुतेति । अप्रस्तुतरूपेत्यर्थः । तद्वाचकेति । जारवाचकेत्यर्थः ।