पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। सर्वार्थनिर्वाह इति भामहोद्भटप्रभृतीनां चिरंतनानामाशयः । 'निशामुखं चुम्बति चन्द्र एषः' इत्यादौ निशाचन्द्रशब्दयोरश्चिष्टत्वान्मुखचुम्बनमात्रस्य च पुत्रादिसाधारण्येन कथं तावन्नियतनायकाक्षेपकत्वम्, कथं वाक्षिप्तस्यापि नायकादेर्निशाचन्द्रयोरेवाभेदेनान्वयः, न भेदेन चुम्बनादौ। तथात्वे च तयोर्नायकताताटस्थ्ये रसानुद्बोधापत्तेः । तस्मात् 'निशामुखं चुम्बति चन्द्रिकैषा', 'अहर्मुखं चुम्बति चण्डभानुः' इत्यादावप्रतीयमानं नायकत्वम् । प्रकृते टाप्प्रथमाभ्यां प्रतिपादितेन प्रकृत्यर्थगतेन स्त्रीत्वेन पुंस्त्वेन च स्वाधिकरण एवाभिव्यज्यते । एवं च निशाशशिनोर्नायकत्वसिद्धिः श्लिष्टविशेषणैः । व्यञ्जनव्यापारेणैवाप्रकतार्थबोधनम् । शक्तेः प्रकरणादिना नियन्त्रणात् । तदित्थं व्यञ्जनमाहात्म्यादेवाप्रकृतवाक्यार्थतादात्म्येन प्रकृतवाक्यार्थोऽवतिष्ठते । गुणीभूतव्यङ्गयभेदश्चायमिति तु रमणीयः पन्थाः। अलंकारसर्वस्वकारस्तु-विशेषणसाम्याद्धि प्रतीयमानमप्रस्तुतं प्रस्तुतावच्छेदकत्वेन प्रतीयते । अवच्छेदकत्वाच्च व्यवहारसमारोपः, न तु रूपसमारोपः । रूपसमारोपे त्ववच्छादितत्वेन प्रकृतरूपरूपित्वाद्र्पकमेव स्यात्' इत्याह । तदेतदुक्तिमात्ररमणीयम् । अप्रकृतव्यवहारः प्रकृतकर्तरि नायकादिकस्वकर्तृविशेषित आरोप्यते तदविशेषितो वा । नाद्यः । एवं च सति चन्द्रादेर्नायकव्यवहाराश्रयत्वेन नायकसाम्यं सि- र्वाहो भामहादीनां मते इति सूचयितुमाह-निशेति । कादाचित्कसंभवादाह-नि- यतेति । ननु कादाचित्क एवास्तामत आह-कथं वेति । आक्षिप्तस्याक्षेपकेणैवान्वयनियमादिति भावः । इष्टापत्ति निराचष्टे-तथात्वे चेति । भेदेन मुखचुम्बनादावन्वये चेत्यर्थः । तयोः निशाचन्द्रयोः । नायकेति । 'स्त्रीपुंवच्च' इत्येकशेषः । एवमग्रे सर्वत्र । व्यतिरेकं दर्शयति-निशामुखेति । स्वाधीति । स्त्रीत्वपुंस्त्वाधिकरण एवेत्यर्थः । नन्वेवं क्वचिदाक्षेपेण क्वचिद्व्यञ्जनया निर्वाह इति वैरूप्यं स्यादत आह-श्लिष्टेति । तैरपीत्यर्थः । एवेनाक्षेपव्यावृत्तिः । ननु शक्त्यैव कुतो नात आह-शक्तेरिति । शक्त्यन्तरं तु दुर्वचमिति भावः । इदं मतमुपसंहरति-तदिति । एवः प्राग्वत् । व्यङ्गयाप्रकृतवाक्यार्थस्य प्रकृतपरिपोषकत्वादाह-गुणीति । तुर्भामहादिमतवैलक्षण्यसूचकः । स्वेति । अप्रकृतव्यवहारेत्यर्थः । चो ह्यर्थे । यत इति तदर्थः । व्यवहाराश्रयत्वेनेति । सजातीव्यवहाराश्रयत्वेनेत्यर्थः । तदाश्रयत्वस्य