पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। ३७१ ऽर्थ उभयत्रानुषक्तया तयैव शक्त्या शक्त्यन्तरेण व्यक्त्या वा सर्वथैव प्रतीयत इत्यत्र सहृदया एव प्रमाणम् । एवं च द्वाविमौ वाक्यार्थी सव्येतरगोविषाणवदत्यन्तासंसृष्टौ यदि स्यातां तदा भगवतो भास्करस्य कामुकत्वं कमलिन्या नायिकात्वं च सकलप्रतीतिसिद्धं विरुद्धं स्यात् । द्विप्रधानत्वेन वाक्यभेदश्चापद्येत । यदि चापरोऽर्थः प्रकतकर्तर्यारोप्यते तदा कमलिनीविकासकर्ता नायिकानुनयकर्ता च सूर्य इत्येकत्र द्वयमिति विषयताशाली बोधः स्यात् । न तु पूर्वोक्तानुपपत्तिपरिहारः । यदि च श्लेषमूलाभेदाध्यवसानेन कमलिन्यादीनां नायिकात्वादिप्रत्यय उपपाद्यते तथाप्यश्लिष्टपदोपस्थितो भगवान्नायकत्वानाघ्रात एव । पद्मिनीशब्द- स्थाने नलिनीशब्दोपादाने सापि नायिकात्वेन कथं नाम प्रतीतिपथमियात् । तस्माद्विशेषणसाम्यमहिम्ना प्रतीतोऽप्रकृतवाक्यार्थः स्वानुगुणं नायिकादिमर्थमाक्षिप्य तेन परिपूर्णविशिष्टशरीरः प्रकृतवाक्यार्थै स्वावयवतादात्म्यापन्नतदवयवोऽभेदेनावतिष्ठते । स च परिणाम इव प्रकृतात्मनैव कार्योपयोगी । स्वात्मना च रसाधुपयोगी । अत्र चाप्रकृतार्थस्य पृथक्शब्दानुपादानाद्रूपकाद्वाक्यार्थसंबन्धिनो वैलक्षण्यं पदार्थरूपकात्तु स्फुटमेव । आक्षिप्तार्थघटितत्वाच्च वाक्यार्थश्लेषात् । एवं चात्र शक्त्याक्षेपाभ्यां काविशेषति । खण्डितेत्यर्थः । आदिना नायकपरिग्रहः । अनुषक्तया संबद्धया । तयैव पूर्वार्थबोधिकयैव । तस्या नियन्त्रणादाह-शक्त्यन्तरेणेति । अस्यापि दुर्वचत्वादाह-व्यक्त्या वेति । व्यञ्जनयेत्यर्थः । एवं च उभयप्रतीतौ च । वैयाकरणमतेनाह-द्विप्रधानेति । वाक्यभेदमुद्धरति-यदि चेति । बोधः स्यादिति । तथा च न वाक्यभेद इति भावः । एवमपि प्रथमदोषानुद्धार एवेत्याह-न त्विति । तमप्युद्धरति-यदि चेति । अश्लिष्टेति । भास्करेतीत्यर्थः । भगवान्सूर्यः । दोषान्तरमाह-पद्मिनीति । पद्मिनीशब्दवन्नलिनीशब्दस्याश्लिष्टत्वादिति भावः । तेनेति । आक्षिप्तनायिकाद्यर्थेन । यतः परिपूर्णमत एव विशिष्टं शरीरं यस्येत्यर्थः । स्वेति । प्रकृतवाक्यार्थेत्यर्थः । एवमग्रेऽपि । तदिति । प्रकृतवाक्यार्थेत्यर्थः । स च अप्रकृतवाक्यश्च । स्वात्मना चेति । चस्त्वर्थे । रूपकाद्भेदकं प्राह-अत्र चेति । समासोक्तौ चेत्यर्थः । स्फुटमेवेति । अस्या वाक्यार्थनिष्ठत्वादिति भावः । वैलक्षण्यमित्यस्यानुषङ्गः । एवमग्रेऽपि । उपसंहरति-एवं चेति । उक्तदोषे चेत्यर्थः । क्वचित् श्लेषाभावेऽपि प्रकारान्तरेण, न विशेषणसाम्यात्तदर्थप्रतीतिस्तत्राक्षेपाभावेनानि-