पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। ३७० तत्र तावत्- 'विबोधयन्करस्पर्शैः पद्मिनी मुद्रिताननाम् । परिपूर्णानुरागेण प्रातर्जयति भास्करः ॥' इत्यत्र किरणस्पर्शकरणकमुकुलितपद्मिनीकर्मकविकासानुकूलव्यापारवदभिन्नो भास्करो जयतीति वाक्यार्थः शक्त्यैव तावत्प्रतीयते । हस्तस्पर्शकरणकनायिकाविशेषकर्मकानुनयानुकूलव्यापारवदभिन्न इत्यादिश्वापरोम्बनादौ वदनचुम्बनाद्यभेदप्रतीतावपि वदनचुम्बने साक्षान्नायिकासंबन्धाप्रतीत्या रसोद्बोधानापत्तेः । न च व्यञ्जनया तत्प्रतीतिरस्ति एवमस्मिन्पदभेदः तत्संबन्धिनि तत्संबन्ध्यभेद इति न्यायेन वा मानसिकी तत्प्रतीतिः तत एव चमत्कार इति वाच्यम् । तदपेक्षया साक्षाच्चमत्कारोपपादकवाच्यार्थबोधव्युत्पादनस्यैवौचित्यात् । ननु व्यञ्जनया अप्रकृतार्थ बोधः । शक्तेः प्रकरणादिना नियन्त्रणात् । ततो व्यञ्जनमाहात्म्यादेव प्रकृतवाक्यार्थतादात्म्येनावतिष्ठते इति चेत् तर्हि वैयञ्जनिकोऽप्रकृतार्थबोधो नायिकाद्यविशेषितो विशेषितो वा । नाद्यः। रसाननुगुणत्वात् । अन्त्ये स्वपदोपस्थापिताभ्यां लिङ्गाभ्यां नायिकाद्यभेदबोधो व्यर्थोऽसंभवी च । नायिकाविशेषणकव्यवहारबोधनेन कृतार्थत्वात् । अपि च तथा सति जारकर्तृकसानुरागपरनायिकामुखचुम्बनाभिन्नप्राचीप्रारम्भसंयोगाश्रयो जाराभिन्नश्चन्द्र इति बोधकदर्थनमेव स्यात् । तस्माद्वयञ्जनया शक्त्या वा उपस्थिताप्रस्तुतवृत्तान्तेन व्यञ्जनयोपस्थितनायकादिसंबन्धित्वेन गृहीतेनाभेदमापन्नः प्रस्तुतवृत्तान्तारोपः । प्रकृतविशेष्ये नव्यमते श्लेषस्थले प्रकृतोपस्थितेः शक्त्यैव व्यवस्थापयिष्यमाणत्वेन तन्मते शक्त्यैवाप्रकृतार्थोपस्थितिः । प्राचां तु व्यञ्जनयेत्येतावान्विशेषः । एवं च वाच्यार्थबोधोत्तरं यदि चन्द्रादौ नायकत्वादिप्रतीतिरपि सहृदयानुभवसाक्षिकी तदास्तु इत्युपपादितमेव प्राक् । एतेन 'निर्लक्ष्मीकाभवत्प्राची प्रतीची याति भास्करे । प्रिये विपक्षरमणीरक्ते का मुदमञ्चति ॥' इत्यत्र पूर्वार्धगतायां समासोक्तौ नायकत्वाप्रतीतावुत्तरार्धे प्रियवादिना समर्थनायाः सर्वथैवानुपपत्तिरिति परास्तम् । प्रस्तुतप्राचीवृत्तान्ते आरोप्यमाणाप्रस्तुतखण्डितनायिकाविशेषवृत्तान्तसमर्थनाय तस्यावश्यकत्वाच्च । एवं च सानुरागपरनायिकामुखचुम्बनाभिन्नप्राचीप्रारम्भसंयोगाश्रयश्चन्द्र इत्येव बोधः । एतेन अयमैन्द्रीत्यादौ शक्तिव्यञ्जनाभ्यां प्राचीप्रारम्भसंबन्धाश्रयश्चन्द्रो जारसंबन्धिसानुरागपरनायिकामुखचुम्बनाश्रय इति बोधः। अप्रस्तुतवृत्तान्ताभिन्नत्वेनाध्यवसितस्य प्रस्तुतत्तान्तस्य तादात्म्येनाप्रस्तुतारोपविषये प्रस्तुतधर्मिण्यन्वय इति मते तु सानुरागपरनायिकामुखचुम्बनाभिन्नप्राचीप्रारम्भसंयोगजाराभिन्नश्चन्द्र इति बोध इत्यपास्तम् । समासोक्तिर्गुणीभूतव्यङ्ग्येति व्यवहारस्तु प्रकृतव्यवहारेऽप्रकृतव्यवहाराभेदस्य व्यञ्जनया प्रतीतेनिबाध एवति दिक् । तत्र उदाहरणीयसमासोक्तौ । तावत् आदौ । अस्य इत्यत्रेत्यनेनान्वयः । नैयायिकमतेनाह-किरणेति । तावत्प्रतीयते आदौ प्रतीयते । नायि-