पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः । कचमत्कारकारित्वमलंकारत्वं च । न चैवं समासोक्तौ रूपकध्वनिनैव निर्वाहे पृथगलं- कारत्वं न स्यादिति वाच्यम् । वाच्यार्थबोधकालिकचमत्कारस्यापहोतुमशक्यत्वेनालंकारत्वस्य दुरपह्नवत्वात् । विपरीतनायकत्वारोपव्यञ्जनस्य समासोक्त्यन्तर्भाव(वद)तो ध्वनित्वस्य दुर्वारत्वाच्च तव्यङ्गयस्याधिकचमत्कारकारित्वेन प्रधानत्वात् । न च श्लिष्टशब्दोपस्थापितयोर्वृत्तान्तयोः परस्परमभेदेनान्वये मानाभावः । सहृदयहृदयस्यैव प्रमाणत्वात् । अत एव 'आगत्य संप्रति वियोगविसंष्ठुलाङ्गीम्' इत्यत्रार्थशक्तिमूलो नायकनायिकावृत्तान्तो वाच्यरविकमलिनीवृत्तान्ताध्यारोपेणैव स्थित इति प्रदीपकृतः । प्राचीनानुभवमपलप्यापि यद्येकत्र द्वयमिति रीत्या प्रस्तुताप्रस्तुतवृत्तान्तयोर्विशेष्येणैवान्वयः स्वीक्रियते एवमपि वाक्यार्थबोधकाले प्रस्तुते धर्मिणि नाप्रस्तुतजारत्वारोपप्रत्याशा । तथाहि यद्यप्यनयोभिन्नपदोपात्तविशेषणयोरिव विशेष्येणैव साक्षादन्वयात्समप्राधान्यमस्तीति स्वीक्रियते तथाप्यप्रस्तुतवृत्तान्तान्वयानुरोधान्न प्रस्तुतेऽप्रस्तुतरूपसमारोपः । प्रस्तुतेऽप्रस्तुतवृत्तान्तारोपेणैव सिद्धेः । अप्रस्तुतरूपसमारोपेऽपि प्रस्तुतवृत्तान्तान्वयायोग्यतायास्तदवस्थत्वाच्च । नन्वेवं सति विशेषणसाम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिरिति प्राचीनलक्षणासंगतिः । अप्रस्तुतधर्मिव्यञ्जनस्य त्वयानपेक्षणादिति चेत् न । स्वरूपतोऽप्रस्तुतवृत्तान्तारोपस्याचमत्कारित्वम् किं त्वप्रस्तुतकामुकादिसंबन्धित्वेनावगम्यमानस्यैव तस्यारोपः । अतः श्लेषादिमहिम्ना विशेषणपदैः स्वरूपतः समर्पितेन चुम्बनादिना ऐन्द्री चन्द्र इत्येतद्गतस्त्रीलिङ्गपुंलिङ्गसहकृतेन तत्संबन्धिनि कामुकादावभिव्यक्ते पुनस्तदीयत्वानुसंधानात् । विशेषणसाम्येन वाच्योपस्कारकस्याप्रस्तुतव्यञ्जनस्याक्षेपणात् । अप्रस्तुतस्येत्यस्याप्रस्तुतव्यवहारस्येत्यर्थो वा । एतेन वदनचुम्बनस्य पुत्रादिसाधारण्यात्कथं कामुकाभिव्यञ्जकत्वम् किं च 'अहर्मुखं चुम्बति भानुबिम्ब' इत्यत्रापि नायकाद्यभिव्यक्त्यापत्तिरित्यपास्तम् । यत्तु चन्द्र ऐन्द्रीपदगतलिङ्गाभ्यामभिव्यक्तनायकयोः स्वव्यञ्जकपदोपस्थापिताभ्यामभेदेनैवान्वय उचितः । समानपदोपात्तत्वप्रत्यासत्तेरिति तन्न। एवं हि वदता व्यवहारावच्छेदकत्वं तयोः स्वीक्रियते न वा । आद्ये एकस्यार्थस्योभयत्रान्वयोऽव्युत्पत्तिग्रस्तः । अन्त्ये रसाननुगुणत्वम् । यद्यप्यैन्द्रयादौ नायिकात्वाभाने केवलं व्यवहारावच्छेदकत्वमात्रस्वीकारे बाधः । नायिकात्वानालीढकेवलैन्द्रीमुखचुम्बनरूपस्य व्यवहारस्य नायकासंबन्धित्वात् । नहि दिक्तादात्म्यं विना नायिकायाः पृथन्मुखं विशेषयितुं सामर्थ्यमस्तीति तदपि न । मुखशब्दश्लेषसामर्थ्येन ऐन्द्रीमुखमित्यस्य समस्तत्वेऽपि ऐन्द्यंशे मोषेण केवलमुखचुम्बनस्योपस्थितेः । तदेतदुक्तं कुवलयानन्दे-श्लेषादिमहिम्ना स्वरूपतः समर्पितेन वदनचुम्बनादिनेति । नह्यैन्द्रीपदशब्दार्थेन दिग्रूपेण वदनरूपमुखपदार्थस्यान्वयो वक्तुं शक्यः सहृदयैः। नन्वेतादृशकुसृष्टिकल्पनापेक्षया विशेषणसाम्यमहिम्ना प्रतीतोऽप्रकृतवाक्यार्थः स्त्रीलिङ्गपुंलिङ्गाभ्यामभिव्यक्तनायिकाद्यभिन्नचन्द्रादिघ- टितप्रकृतवाक्यार्थे स्वावयवतादात्म्यापन्नतदवयवोऽवतिष्ठते इत्येव कल्पयितुं युक्तम् । एवं च नायिकाभिन्न इन्द्रदिशासंबन्धिवदनाभिन्न प्रारम्भकर्मकचुम्बनरूपसंबन्धाश्रयो नायकाभिन्नश्चन्द्र इति बोध इति चेत् न । एवं हि ऐन्द्यां नायिकाभेदप्रतीतौ मुखचु- ४