पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। 'मृणालमन्दानिलचन्दनानामुशीरशेवालकुशेशयानाम् । वियोगदूरीकृतचेतनाया विनैव शैत्यं भवति प्रतीतिः॥' अत्र शैत्यस्याविनाभावेऽपि विनाभावो निबद्धः । यथा वा- 'शैत्यं विना न चन्द्रश्रीर्न दीपः प्रभया विना । न सौगन्ध्यं विना भाति मालतीकुसुमोत्करः ॥' अलंकारान्तरसमालिङ्गनाविर्भूतमेवास्या हृद्यत्वम्, न स्वतः । तेनालंकारान्तरत्वमपि शिथिलमेवेत्यपि वदन्ति । अथास्या ध्वनिः- यथा- 'विशालाभ्यामाभ्यां किमिह नयनाभ्यां फलमसौ न याभ्यामालीढा परमरमणीया तव तनुः । अयं तु न्यक्कारः श्रवणयुगलस्य त्रिपथगे यदन्तर्नायातस्तव लहरिलीलाकलकलः ॥' अत्र त्वदर्शनं विना नयनयोः, त्वल्लहरिकोलाहल श्रवणं विना श्रवणयोश्चारमणीयत्वं फलप्रश्नधिक्काराभ्यां व्यज्यते । तस्य च . भावध्वन्यनुग्राहकत्वेऽपि ध्वनिव्यपदेश्यत्वमव्याहतम् । अन्यथानुग्राहकत्वलक्षणसंकरोच्छेदापत्तेः । एवं च- 'निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम् । उत्पत्तिरिन्दोरपि निष्फलैव कृता विनिद्रा नलिनी न येन ।' इति कस्यचित्कवेः पद्यं विनोक्तिध्वनिरेव । परंतु परस्परविनोक्तिवशाद्वैलक्षण्यशालि । इति रसगङ्गाधरे विनोक्तिप्रकरणम् । शैत्यं विनैव तेषां प्रतीतिर्भवतीत्यर्थः । शैत्यस्येति । मृणालादीति सहेति शेषः । एवं रमणीयत्वे उदाहरणं दत्त्वा अरमणीयत्वे उदाहरति-यथेति । आलीढा दृष्टा । न्यक्कारस्तिरस्कारः । यदन्तरिति । श्रवणयुगलान्तरित्यर्थः । त्वद्दर्शनं भागीरथीदर्शनम् । तस्य च व्यज्यमानारमणीयत्वस्य । भावेति । कविनिष्ठगङ्गाविषयकेत्यादिः । अन्यथा अनुग्राहकत्वात्तद्व्यपदेशानङ्गीकारे । एवं च तस्य तद्व्यपदेश्यत्वे च । वैलक्षण्येति । पूर्वोदाहरणापेक्षयेति भावः ।। इति रसगङ्गाधरमर्मप्रकाशे विनोक्तिप्रकरणम् ॥