पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। अथ समासोक्तिः- यत्र प्रस्तुतधर्मिको व्यवहारः साधारणविशेषणमात्रोपस्थापि- ताप्रस्तुतधर्मिकव्यवहाराभेदेन भासते सा समासोक्तिः। साधारणविशेषणमात्रश्रुत्युपस्थापिताप्रकृतधर्मिकव्यवहाराभिन्नत्वेन भासमानप्रकृतधर्मिकव्यवहारत्वमिति चैकोक्तिः । शब्दशक्तिमूलध्वनि वारणाय मात्रेति । तत्र विशेष्यस्यापि श्लिष्टतया प्रकृतेतरधर्म्युपस्थापनद्वारा तादृशर्मिकव्यवहारोपस्थापकत्वात् । एवमपि 'आवध्नास्यलकान्निरस्यसि तमां चोलं रसाकाङ्क्षया- लङ्कायावशतां तनोषि कुरुषे जङ्घाललाटक्षतम् । प्रत्यङ्गं परिमर्दनिर्दयमहो चेतः समालम्बसे वामानां विषये नृपेन्द्र भवतः प्रागल्भ्यमत्यद्भुतम् ।। इत्यत्र प्रकृतधर्मिकप्रकृताप्रकृतव्यवहारविषयके श्लेषेऽतिव्याप्तेर्वारणाय प्रस्तुताप्रस्तुतत्वे धर्मिविशेषणतयोपात्ते । व्यवहारविशेषणत्वेन तयोरुपादाने तु साधारणविशेषणमात्रश्रुत्युपस्थापिताप्रकृतशृङ्गारवत्तान्ता- भिन्नत्वेन स्थित एवात्र प्रकृतो वीरवृत्तान्त इति स्यादेवातिप्रसङ्गः । न चात्र राज्ञो वर्णनस्य प्रस्तुतत्वात्तद्गतयोर्द्वयोरपि वृत्तान्तयोः प्रस्तुतत्वमिति कथमतिप्रसङ्ग इति वाच्यम् । न स्यादतिप्रसङ्गः, यदि वर्णनमात्र प्रस्तुतं स्यात् । तत्सङ्ग्रामादौ वीरतामात्रवर्णनप्रस्तावे तु स्यादेवातिप्रसङ्गः । 'मलिनेऽपि रागपूर्णी विकसितवदनामनल्पजल्पेऽपि । त्वयि चपलेऽपि च सरसां भ्रमर कथं वा सरोजिनीं त्यजसि ॥' समासोक्ति निरूपयति-अथेति । वाक्येनोक्तमर्थं सामस्त्येनाह-साधारणेति। मात्रपददानफलमाह-शब्देति। तत्र शब्दशक्तिमूलध्वनौ। अपिना विशेषणसमुच्चयः । तादृशेति । अप्रकृतेत्यर्थः । अलकाः केशाः, अलका कुबेरपुरी । चोल: कञ्चकः, देशश्च । रसाकाङ्क्षयेति पूर्वान्वयि । रसः शृङ्गारः, वीरश्च । अलं कायस्यावशताम्, लङ्काया वशतां च । जङ्गाललाटसमाहारक्षतम्, जङ्घाल-लाटदेशयोर्नाशं चेत्यर्थः । अहो इत्याश्चर्ये । हे नृपेन्द्र, भवतः परिमर्दनिर्दयं चेतः प्रत्यङ्गं प्रत्यवयवं अङ्गमङ्गदेशं च समालम्बते । वामानां सुन्दरीणाम्, वक्राणां शत्रूणां च । प्रकृतेति । राजेत्यर्थः । तयोः प्रस्तुतत्वाप्रस्तुतत्वयोः । तत्सङ्ग्रामादौ राजसङ्ग्रामादौ । मात्रवर्णनेति । वर्णनमात्रेत्यर्थः । क्वचित्तथैव पाठः । मलिनेपीत्यादिसप्तम्यन्तानि त्वयीत्यस्य विशेषणानि । उपात्तवं विशेष्ये अन्वे-