पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। ३६५ पूर्वा तु केवला, इयं तु दीपकानुकूला । मिश्रिता यथा- 'रागं विना विराजन्ते मुनयो मणयस्तु न । कौटिल्येन विना भाति नरो न कबरीभरः ॥' अत्र प्रतिवस्तूपमानुकूला। 'त्रासैर्विना विराजन्ते शूराः सन्मणयो यथा । न दानेन विना भान्ति नृपा लोके द्विपा इव ॥' अत्र क्ष्लेषमूला उपमानुकूला । 'यथा तालं विना रागो यथा मानं विना नृपः । यथा दानं विना हस्ती तथा ज्ञानं विना यतिः ॥' पूर्वे क्रियागुणादिसंबन्ध आवश्यकः इह तूपमामाहात्म्यावदगम्यते स इति न तथा । इयं च न केवलं विनाशब्दस्य सत्त्व एव भवति । अपि तु विनाश- ब्दार्थवाचकमात्रस्य । तेन नञ्-निर्-वि-अन्तरेण-ऋते-रहित-विकल इत्या- दिप्रयोगे इयमेव । 'निर्गुणः शोभते नैव विपुलाडम्बरोऽपि ना । आपातरम्यपुष्पश्रीशोभितः शाल्मलिर्यथा ॥' अलंकारभाष्यकारस्तु 'नित्यसंबन्धानामसंबन्धवचनं विनोक्तिः' इत्याह । तस्य मते तु नैतान्युदाहरणानि । इदं तूदाहरणम्- म् । पूर्वा अरमणीयत्वोदाहृतत्वावच्छिन्ना । तयोर्नरराजयोर्वर्णनेन तदीयत्वेन सर्वेषां प्रकृ. तत्वात् । इयं रमणीयत्वोदाहृता । मिश्रिता यथेति । विनाकृतस्य वस्तुनो रमणीय- त्वारमणीयत्वाभ्यां मिश्रितेत्यर्थः । रागमनुरागं लौहित्यं च । कौटिल्येन वक्रान्तःकरणेन वक्रतया च । त्रासो भयं दोषश्च । दानं वितरणं मदजलं च । द्विपा गजाः । अत एवाह-अत्रेति । इदं पूर्वोदाहरणेऽपि बोध्यम् । दीपकासंसृष्टं विषयं प्रदर्शयन्नरमणी- यत्वे उदाहरति-यथेति । न शोभते इति सर्वत्र बोध्यम् । तालः संगीतशास्त्रप्रसिद्धो ध्वनिविशेषः । यतिः संन्यासी । स क्रियादिसंबन्धः। तथेति । नावश्यक इत्यर्थः । अयमेव पूर्वतो विशेष इत्यर्थः । इयं च विनोक्तिश्च । आदिना अनादिसंग्रहः । निर्गुण इति । बह्वाडम्बरोऽपि ना पुरुषः निर्गुणः सन्नैव शोभत इत्यर्थः । चेतना बुद्धिः तस्याः