पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। यथा वा- 'उन्मीलितः सह मदेन बलाद्वलारे- रुत्थापितो बलभृतां सह विस्मयेन । नीलातपत्रमणिदण्डरुचा सहैव पाणौ धृतो गिरिधरेण गिरिः पुनातु ॥' अत्र नीलातपत्रमणिदण्डरुचो गिरिधरणोत्तरकालिकत्वादुत्तरार्धगता पौर्वापर्यविपर्ययानुप्राणितैव सहोक्तिनिदर्शनानुप्राणिता च । पूर्वार्धगते तु प्रकारद्वयेनापि संभवतः । इति रसगङ्गाधरे सहोक्तिप्रकरणम् । अथ विनोक्तिः- विनार्थसंबन्ध्येव विनोक्तिः। हृद्यत्वं चानुवर्तते । तच्च विनाकृतस्य वस्तुनो रमणीयत्वारमणीयत्वाभ्यां भवति । यथा- 'संपदा संपरिष्वक्तो विद्यया चानवद्यया । नरो न शोभते लोके हरिभक्तिरसं विना ॥' यथा वा- 'वदनं विना सुकवितां सदनं साध्वीं विना वनिताम् । राज्यं च विना धनितां न नितान्तं भाति कमनीयम् ॥' रमणीयत्वे यथा-- 'पङ्कैर्विना सरो भाति सदः खलजनैर्विना । कटुवर्णविना काव्यं मानसं विषयविना ॥ उन्मूलितः समूलं खण्डितः । बलारेरिन्द्रस्य । एवेन श्लेषादिप्रकारद्वयव्यावृत्तिः । निदर्शनेति । सदृशवाक्यार्थयोरैक्यारोपादिति भावः । गते तु सहोक्ती इति शेषः । प्रकारद्वयेनेति । श्लेषभिन्नप्रकारद्वयेनेत्यर्थः ।। इति रसगङ्गाधरमर्मप्रकाशे सहोक्ति- प्रकरणम् ॥ विनोक्ति लक्षयति-अथेति । 'विनार्थसंबन्ध एव' इति पाठः । तच्च हृद्यत्वं च । उद्देशक्रमवैपरीत्येनारमणीयत्वे तावदुदाहरति-यथेति । सदः सभा । मानसमन्तःकरण-