पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। एवं क्रियायाः साधारणधर्मत्वे इयमुदाहृता । गुणस्य तथात्वे यथा- 'मान्थर्यमाप गमनं सह शैशवेन रक्तं सहैव मनसाधरबिम्बमासीत् । किं चाभवन्मृगकिशोरदृशो नितम्बः सर्वाधिको गुरुरयं सह मन्मथेन ।' अत्र यद्यपि क्रियापि गुणेन सह समानधर्मतामनुभवति तथापि तस्थानान्तरीयकत्वेनासुन्दरत्वाद्गुणस्यैव पर्यवसाने समग्रभरसहिष्णुत्वम् । शोणत्वासक्तत्वाभ्यामधिकभारत्वोपदेशकर्तृत्वाभ्यां च भिन्नयोरप्युपमेयोपमानगतयोर्निरुक्तगुणयोः श्लेषेण पिण्डीकरणात्सहभावोपपत्तिः । एवं श्लेषाभावेऽपि केवलाध्यवसानेन बोध्यम् । यत्रैकमेवोपमेयं विलक्षणसहोत्यालम्बनं सा मालासादृश्यान्मालासहोक्तिः । वैलक्षण्यं च सहोक्तेः स्वसमानाधिकरणसहोक्त्यन्तरापेक्षया बोध्यम् । 'केशैर्वधूनां' इत्यत्र केशैः सह कोषैः सह प्राणैः सहेत्युपमानभेदेन साहित्यस्यानेकत्वेऽपि कर्षणैक्यात्सहोक्तेरभेदः । सति वा यथाकथंचिद्भेदे न बैलक्षण्यम् । धर्मेैक्यात् । धर्मोपमानोभयकृतवैलक्षण्यस्य चात्र विवक्षणात् । 'उन्मीलन्तो निमीलन्तः' इत्यत्र च धर्मवैलक्षण्येऽप्युन्मीलनधर्मोत्थापितसहोक्तिघटकोपमानानां पद्मपत्रादीनामेव निमीलनधर्मोत्थापितायामपि सहोक्तौ घटकत्वान्न मालारूपत्वम् । 'भाग्येन सह रिपूणां-' इति तूदाहरणमेव । दितमिदम् । तथात्वे साधारणधर्मत्वे । मान्थर्यं मन्दत्वम् । क्रियापीति । प्राप्त्यादिरित्यर्थः । एवं च गुणस्य तथात्वोदाहरणत्वोक्तिरयुक्तेति भावः । नान्तरीयकत्वेनेति । तां विना वाक्यार्थासमाप्तेरिति भावः । समग्रेति । विच्छित्याधायकत्वेत्यादिः । नन्वेवमपि मान्थर्याशे तथात्वेऽपि रक्ताद्यंशे धर्मयोर्भेदात्कथं तत्त्वमत आह-शोणत्वेति । अधरे शोणत्वं मनस्यासक्तत्वं नितम्बेऽधिकभारत्वं कामे उपदेशकर्तृत्वमिति बोध्यम् । तृतीयभेदेऽप्येवमेव पिण्डीकरणमित्याह-एवमिति । ननु प्रागुक्तसहोक्त्यपेक्षया न वैलक्षण्यमत आह-वैलक्षण्यं चेति। तथा च विलक्षणेत्यस्य मिथो भिन्नेत्यर्थः सूचितः । नन्वेवं केशैरित्यत्रापीयं भवेदत आह-केशैरिति । ननु धर्मैक्येऽपि तद्भेदेनेयं स्यादेवात आह--सतीति । सत्यपीत्यर्थः । यथाकथंचिदिति । धर्मोपमानान्यतररूपेणेत्यर्थः । प्रकृताभिप्रायेणाह-धर्मैक्यादिति । अत्र मालासहोक्तिलक्षणे । क्वचिद्धर्मवैलक्षण्येऽप्युपमानाभेदान्नैवमित्यभिप्रायेणाह-उन्मीलन्त इति । नन्वेवं तहि किमस्या उदाहरणमत आह- -भाग्येनेति । तत्र धर्मोपमानयोर्भेदादिति भावः ।