पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । 'अनुकूलभावमथवा पराङ्मुखत्वं सहैव नरलोके । अन्योन्यविहितमन्त्री विधिदिल्लीवल्लभी वहतः ॥' इत्यत्र प्रसङ्गवारणायावच्छिन्नान्तम् । उदाहरणम्- 'केशैर्वधूनामथ सर्वकोषैः प्राणैश्च साकं प्रतिभूपतीनाम् । त्वया रणे निष्करुणेन राजंश्चापस्य जीवा कृजवेन ।' अत्र चापाकर्षणकार्याणां केशाकर्षणादीनां पौर्वापर्यविपर्ययेणानुप्राणितः सहभावः, निष्करुणत्वेन च पौर्वापर्यविपर्ययः । यथा वा- 'भाग्येन सह रिपूणामुत्तिष्ठसि विष्टरात्क्रुधाविष्टः । सहसैव पतसि तेषु क्षितिशासन मृत्युना साकम् ।।' पूर्व तु कर्मणः सहोक्तिः इह कर्तुरिति भेदः । 'त्वयि कुपिते रिपुमण्डलखण्डलपाण्डित्यसंपदुद्दण्डे । गिरिगहनेऽरिवधूनां दिवसैः सह लोचनानि वर्षन्ति ॥' अत्र वर्षणवर्षवदाचरणयोः श्लेषेणाभेदाध्यवसितिः । यथा वा- 'बहु मन्यामहे राजन्न वयं भवतः कृतिम् । विपद्भिः सह दीयन्ते संपदो भवता यतः ।।' पूर्वा कर्तृसहोक्तिः, इयं तु कर्मसहोक्तिर्व्याजस्तुतिसंवलिता । 'पद्मपत्रैर्नृणां नेत्रैः सह लोकत्रयश्रिया । उन्मीलन्तो निमीलन्तो जयन्ति सवितुः कराः ॥' ध्यवसानरूपयेत्यर्थः । अतिशयोक्त्या तत्सहकारेण । अन्वयानुयो गिना इति शेषः । अनुप्राणने पोषणे । अन्योन्येति । अन्योन्यं विहितो मन्त्रो विचारो याभ्यां तौ। अदृष्टदिल्लीशावित्यर्थः । अत्र तादृशहार्थ (2) संबन्धसत्त्वेऽपि तयोः समप्राधान्येन गुणप्रधानभावाभाव इति भावः । प्रतिभूपतीनामित्यस्य त्रिषु संबन्धः । जीवा प्रत्यञ्चा। ननु विपर्यय एव कथमत आह-निष्केति । 'क्रुधाविष्टः' इति पाठः । 'क्रोधाविष्टः' इत्यपपाठः । तेषु रिपुषु । क्षितिशासनेति । द्वितीयभेदोदाहरणमाह-त्वयीति । कृतिक्रियां (?) । अत्र शत्रूणां विपन्मित्राणां संपदिति बोध्यम् । तृतीयभेदोदाहरणमाह-पद्मेति ।