पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। ३६७ अस्य चालंकारस्य सादृश्यगर्भत्वात् सादृश्यस्य च त्रिविधधर्मोत्थापितत्वात् अत्रापि तत्प्रकारानुगमो बोध्यः । तत्रानुगामिनि धर्मे यथा- 'अरुणमपि विद्रुमद्वुं मृदुलतरं चापि किसलयं बाले । अधरीकरोति नितरां तवाधरो मधुरिमातिशयात् ।।' अत्रारुण्यम्रदिमानावनुगामिनौ । बिम्बप्रतिबिम्बभावापन्ने यथा-'जलजं ललितविकासं सुन्दरहासं तवाननं हसति । अत्र हासविकासयोर्बिम्बप्रतिबिम्बभावः । लालित्यसौन्दर्ययोः शुद्धसामान्यता । श्लेषोपात्तं जडजत्वं स्वाश्रयापकर्षहेतुः । एवं सादृश्यनिषेधालीढो व्यतिरेको निरूपितः। अभेदालीढोऽप्येष संभवति यथा- 'निष्कलङ्क निरातङ्क चतुःषष्टिकलाधर । सदा पूर्ण महीप त्वं चन्द्रोऽसीति मृषा वचः ।।' इति रसगङ्गाधरे व्यतिरेकप्रकरणम् । अथ सहोक्तिः- गुणप्रधानभावावच्छिन्नसहार्थसंबन्धः सहोक्तिः। हृद्यत्वं चालंकारसामान्यलक्षणागतं सकलालंकारसाधारणमेवेत्यसकदुतम् । तच्चात्र कार्यकारणपौर्वापर्यविपर्ययात्मिकया श्लेषभित्तिकाभेदाध्यवसानात्मिकया केवलाभेदाध्यवसानात्मिकया चातिशयोक्त्यानुप्राणने भवतीति वदन्ति । रूपकोपमाया आद्यार्धे उपमेयस्य पितुरुत्कर्षिका । द्वितीयार्धेऽनन्वयोपमा तादृशमा- तुस्तथा । तृतीयार्धे शुद्धोपमैव तादृश्यस्य पितुः स्वस्य चापकार्षिकेत्यर्थः । उपमा एवेति । एवेन रूपकादिव्यावृत्तिः । त्रिविधेति । अनुगामिबिम्बप्रतिविम्वभावापन्नशुद्धसामान्यरूपेत्यर्थः । तृतीयस्यापीदमेवोदाहरणमित्याह-लालित्येति । स्वाश्रयेति । कमलेत्यर्थः । 'अभेदनिषेधालीढोऽपि' इति पाठः । यथेति । चन्द्रस्तु सकलङ्कः (उपरुगि) सातङ्कः षोडशकलः सदा न पूर्ण इति व्यतिरेकः ॥ इति रसगङ्गाधर- मर्मप्रकाशे व्यतिरेकप्रकरणम् ॥ सहोक्ति लक्षयति-अथेति । गुणेति । गुणप्रधानभावावच्छिन्नयोरर्थयोः सहार्थसंबन्ध इत्यर्थः । तच्च हृद्यत्वं च । श्लेषेति । श्लेषमूलकेत्यर्थः । केवलेति । निगीर्या- -