पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३५६ काव्यमाला। नाद्यः । उत्कर्षप्रयोजकधर्मस्यात्रानुपस्थितेः । न च श्लेषेण दीर्घाक्षरस्योपस्थितिरस्त्येवेति वाच्यम् । तस्योपमानवृत्तित्वेनोपमेयानुत्कर्षकत्वात् । अर्थान्तरेणाकतिरूपेण सह श्लेषमूलकाभेदाध्यवसायेन साधारणीकरणाच्च । अन्यथा श्लेषमूलकोपमोच्छेदापत्तेः । 'चन्द्रबिम्बमिव नगरं सकलकलम्' इत्यादावपि कलकलसहितत्वकलासाकल्ययोर्वस्तुतो वैधर्म्यरूपत्वात् । न च सकलकलमित्यत्रोपमायामेव कवेर्निर्भरः प्रकृते तु भेदशब्दोक्त्या वैलक्षण्ये स इति भ्रमितव्यम् । यद्यत्रोपमाविघटनरूपो व्यतिरेको निर्भरसहः स्यात् आकारशब्दश्लेषोऽनर्थकः स्यात् कृपणस्य कृपाणस्य भेदो दीर्घाक्षरादेवेत्येव ब्रूयात् । न ह्यत्र व्यतिरेके श्लेषोऽनुकूलः । प्रत्युत प्रतिकूल एव । उपमायां पुनरनुकूलः । प्रतिकूलस्य दीर्घाक्षररूपवैधय॑स्य साधारणीकरणात् आकृतिभेदस्य चोपमानोपमेययोरपि सत्त्वात् । एवं हि कवेराशयः-यत्कृपणकपाणयोस्तुल्यतैव । गाढतरेत्यादिविशेषणसाम्यात् । अक्षरभेदस्त्वाकारभेदत्वादविरुद्ध एवेति सहृदयैराकलनीयम् । न द्वितीयः । तस्योक्तिमात्रेणाप्यसंगतेः अहृद्यत्वाच्च । तस्मादत्र गम्योपमैव सुप्रतिष्ठितेत्यास्तां कूटकार्षापणोद्धाटनम् । प्रकृतमनुसरामः । अलंकारान्तरोत्थापितोऽप्ययं संभवति । यथा- 'ईश्वरेण समो ब्रह्मा पिता साक्षान्महेश्वरः । पार्वत्या सदृशी लक्ष्मीर्माता मातुः समा भुवि ॥ पितास्य काष्ठसदृशः स्वयं पावकसंनिमः ॥ अत्र रूपकानन्वयोपमा उपमेयोत्कर्षस्योपमा एवोपमानापकर्षस्य च हेतवः। नस्यापि व्यतिरेकस्य नालंकारत्वम् । किं तु वस्तुतामात्रमिति । अलंकारश्चात्र गम्योपमैव कृपणकृपाणयोः श्लेषलब्धा कृते दीर्घाक्षराच्च भेदेऽपि इतरत्सर्व तुल्यमैवेति पर्यवसानात् । तत्कृतचमत्कारस्यैव सत्त्वाच्चेति बोध्यम् । उपमेयानुत्कर्षति । उपमेयोत्कर्षप्रयोजकत्वाभावादित्यर्थः । अर्थान्तरेणेति । तस्येत्यस्यानुषङ्गः । स निर्भरः । उपमायामिति । अत्रेत्यस्यानुषङ्गः । कूटेति । मिथ्याकार्षापणेत्यर्थः । अलंकारास्तरोत्थापीति । श्लेषान्यालंकारोत्थापितोऽपीत्यर्थः । अयं व्यतिरेकः । अत्रेति ।