पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। ३५९ . अत्रोन्मीलननिमीलनयोः पद्मपत्राद्याश्रयभेदेन भिन्नयोरपि प्रकटत्वाप्रकटत्वाद्यकोपाध्यवच्छिन्नतयाभिन्नीकृतयोरुपादानमित्यस्त्येकक्रियासंबन्धः । अत्र एव न श्लेषः। तस्य प्रतिपाद्यतावच्छेदकभेद एव स्वीकारात् । एषूदाहरणेषु सहयोगतृतीयाप्रयुक्तो गुणप्रधानभावः । प्राधान्येन क्रियान्वये तु यथायथं तुल्ययोगिता दीपकं वा भवति । सहादिशब्दप्रयोगाभावेऽप्येषा संभवति । 'वृद्धो यूना-' इति निर्देशेन तृतीयायाः साम्राज्यात् । परं त्विवादिशब्दरहितोत्प्रेक्षादिवद्गम्या। अप्रधानभावस्तु शाब्द एव । ननु कथमप्रधानभावः शाब्द इत्युच्यते । यावता आर्थक्रियाद्यन्वयितारूपः स स्यात् पदार्थान्तररूपो वा । उभयथाप्यस्य वाचकशब्दाभावादशाब्दत्वमेवेति चेत् न । अस्ति तावत्सखण्डमखण्डं वा प्रधानत्वम् । यद्वशात् अयमस्मिन्नगरे प्रधान मुख्य इत्यादयो व्यवहारा आपामरमुखसन्ति । तदभावरूप चाप्रधानत्वे 'सहयुक्तेऽप्रधाने' इति शास्त्रेण तृतीयायाः शक्तेर्बोधनात्तस्य कथमशाब्दत्वम् । न च सहार्थेन युक्ते वस्तुतोऽप्रधाने तृतीयेति तस्यार्थः न त्वप्रधानेऽर्थे वाच्ये इति । तथा च नोक्तार्थसिद्धिरिति वाच्यम् । एवं चाप्रधानग्रहणवैयर्थ्यापत्तेः । 'पुत्रेण सहागतः पिता' इत्यादौ पित्रादिभ्योऽन्तरङ्गत्वात्प्रथमोत्पत्तेरेवौ- कराः किरणाः । प्रकटेति । उन्मीलनपदार्थप्रकटत्वादिरूपैकोपाधिवैशिष्टयेनाभिन्नी- कृतयोरित्यर्थः । आदिना निमीलनपदार्थाप्रकटत्वपरिग्रहः । अत एवेत्यस्यार्थमाह- तस्यति । श्लेषस्येत्यर्थः । एवं च निगीर्याध्यवसानरूपातिशयोक्तेरयं विषय इति भावः । प्राधान्येनेति । द्वयोरित्यादिः। यथायथमिति । प्रकृतत्वमात्रादौ प्रकृताप्रकृतत्वे वेत्यर्थः । एषा सहोक्तिः । निर्देशेति । अर्थयोगे तृतीया न तु शब्दयोगे इत्यनेन ज्ञापनादिति भावः । गम्येति । सहोक्तिरिति शेषः । शाब्द एवेति । तत्प्र- योगाभावेऽपीति भावः । यावता यस्मात् । सः अप्रधानभावः । पदार्थान्तरेति । अ- खण्डेत्यर्थः। चेन्नेति । तथानङ्गीकारादिति शेषः । तमेवाह अस्तीत्यादिना । सखण्डमिति । विशेष्यताख्यविषयतया प्रतीयमानत्वरूपस्येति तस्येत्यर्थः । अप्रधानस्येति तदर्थः । शाब्द क्रियान्वयत्वरूपं वेत्यर्थः । तदभावेऽपि तत्प्रतीतेराह-अखण्डं वेति। अनुभवबलादेव वैपरीत्यं नेति भावः । तदाह-यद्वशादिति । 'अप्रधानत्वे सहयुक्ते' इति पाठः । 'अप्रधानत्वेऽप्राधान्यत्वेन सह' इत्यपपाठः । वक्ष्यमाणग्रन्थविरोधात् । नन्वेवमपि प्रथमाया अविषये दोष एव अत आह-पुत्रेणेति । कारकेति । षष्ठया