पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। त्रापि स्थित इति प्रकृतार्थप्रतीतेविशदीकरणमात्रार्थम् । न तु सादृश्यप्रतिपत्त्यर्थम् । अतः सादृश्यप्रतीत्यप्रतीतिभ्यामनयोरलंकारयोर्भेदः' इत्याह । तन्न । प्रकृताप्रकृतवाक्यार्थयोरुपादानस्यालंकारद्वयेऽप्यविशिष्टत्वादेकत्र सादृश्यप्रत्ययः, अन्यत्र नेत्यस्याज्ञानमात्रत्वात् । वैपरीत्यस्यापि सुवचत्वाच्च । एतादृशोऽर्थोऽन्यत्रापि स्थित इति प्रकृतार्थप्रतीतिविशदीकरणस्य त्वदभिहितस्य सादृशापरपर्यायत्वाञ्च । अत एव प्रायशः सत्कविनिर्मितेषु लक्ष्येषु प्रकृतवाक्यार्थघटकप्रकृतिप्रत्ययार्थानुरूपप्रकृतिप्रत्ययार्थघटित एवाप्रकृतवाक्यार्थो दृश्यते । न च भवदुक्तमपि वैलक्षण्यं नानयोः पृथगलंकारतायां प्रयोजकम् । औपम्याख्यसामान्यलक्षणाक्रान्ततया उपमाभेदवदेकालंकारभेदत्वापत्तेरिति वाच्यम् । तवापि दीपकतुल्ययोगितयोरेकभेदत्वापत्तेः । इष्टापत्तिरिति चेत्सैवात्रापि दृश्यताम् । प्राचीनविभागस्य भवतैव शिथिलीकृतत्वात् । औपन्यरूपसामान्यलक्षणसत्त्वाद्बहूनामलंकाराणामुपमावान्तरभेदत्वापत्त्या सकलालंकारिकसिद्धान्तभङ्गप्रसङ्गाच्च । 'अब्धिर्लङ्घित एव वानरभटैः-' इत्यादिमुरारिपद्ये यद्यपि ज्ञानार्थ एको धर्मों निर्दिष्टस्तथापि नैतन्निबन्धनमौपम्यं विवक्षितम् । यन्निबन्धनं च विवक्षितं तत्राब्धिलङ्घनादावस्त्येव दिव्यवागुपासनादिना प्रतिबिम्बनमिति त्वन्मूलग्रन्थविरोधाच्च । न च यन्निबन्धनं च विवक्षितमित्यत्रार्थालंकारत्वं विशेष्यं शेषपूरणेन योज्यम्, न पुनरौपर्थोपादानमित्यर्थः । स्थित इति । इत्यस्य विशदीकरणेऽन्वयः । स्पष्टार्थे मात्रपदव्यवच्छेद्यमाह-न त्विति । अभ्युपेत्याप्याह-वैपरीत्येति । इष्टावत्तावाह-एतादृश इति । अतएव उक्तरीत्या दृष्टान्ते सादृश्यप्रतीतेरेव । क्वचित्तदभावेऽपि न क्षतिरित्याह-प्रायश इति । सदित्यनेनासत्कविव्यावृत्तिः । तथा च तत्र तदभावेऽपि न क्षतिरिति भावः। लक्ष्येष्विति । दृष्टान्तेत्यादिः। भवदुक्तमपीति । धर्मस्य प्रतिबिम्बितत्वाप्रतिबिम्बितत्वकृतमिति भावः । एकालंकारेति । उपमालंकारेत्यर्थः । एकभेदत्वेति । एकालंकारत्वेत्यर्थः । अलंकारभेदो न स्यादिति यावत् । सैव इष्टापत्तिरेव । नन्वेवं प्राचीनविभागोच्छेदापत्तिरत आह-प्राचीनति । दीपकतुल्ययोगितास्थल इति भावः । एवं प्रतिवन्दीमुक्त्वा दोषमाह-औपम्येति । बहूनां अनन्वयादीनाम् । तत्रापीष्टापत्तावाह-अब्धिरिति । ज्ञानरूपोऽर्थ इत्यर्थः । यद्यप्येकत्र ज्ञानमेकत्र संस्पर्श इति भेदस्तथापि बिम्बप्रतिबिम्बभावनाभेद इति भावः । यन्निबन्धनमिति । अब्धिलङ्घनादिप्रयुक्तमित्यर्थः । औपन्यमित्यस्यानुषङ्गः । त्वन्मूलेति । अलं.