पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः।

-

तस्मादेवंजातीयकेष्वलंकारेषु पूर्ववाक्यार्थघटकनामार्थानुरूपैर्नामार्थैस्त- द्वटकविभक्त्यनुरूपाभिर्विभक्तिभिस्तदन्वयारूपेण चान्वयेन भाव्यमिति सहृदयहृदयं प्रष्टव्यम् । 'वहति विषधरान्पटीरजन्मा शिरसि मषीपटलं दधाति दीपः । विधुरपि भजतेतरां कलङ्क पिशुनजनं खलु बिभ्रति क्षितीन्द्राः ॥' अत्र वहनाधानभजनभरणानां वस्तुत ऐकरूप्यात्प्रतिवस्तूपमेयं मालारूपा। इति रसगङ्गाधरे प्रतिवस्तूपमाप्रकरणम् । अथ दृष्टान्तालंकारः- प्रकृतवाक्यार्थघटकानामुपमादीनां साधारणधर्मस्य च बिम्बप्रतिबिम्बभावे दृष्टान्तः। तदुक्तम्-'दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम्' इति । उदाहरणम्- 'सत्पूरुषः खलु हिताचरणैरमन्द- मानन्दयत्यखिललोकमनुक्त एव ।। आराधितः कथय केन करैरुदारै- रिन्दुर्विकासयति कैरविणीकुलानि ॥ अत्रानन्दनविकासयोरपि बिम्बप्रतिबिम्बभावः । अस्य चालंकारस्य प्रतिवस्तूपमया भेदकमेतदेव यत्तस्यां धर्मों न प्रतिविम्बितः, किं तु शुद्धसामान्यात्मनैव स्थितः । इह तु प्रतिबिम्बितः । विमर्शिनीकारस्तु–'प्रतिवस्तूपमायामकृतार्थोपादानं तेन सह प्रकृतार्थस्य सादृश्यप्रतिपत्त्यर्थम् । दृष्टान्ते तु तदुपादानमेतादृशोऽर्थोऽन्य- आनुरूप्यं सर्वथा अपेक्षितमित्युपसंहरति-तस्मादिति । मालारूपप्रतिवस्तूपमामुदाहरति-वहतीति । पटीरजन्मेति । मालारूपेति । पटीरजन्मेव दीप इत्यादिप्रतीतेरित्यर्थः ॥ इति रसगङ्गाधरमर्मप्रकाशे प्रतिवस्तूपमाप्रकरणम् ।। दृष्टान्तं निरूपयति-अथेति । बिम्बप्रतिबिम्वभावापनसाधारणधर्मादिकं वाक्यार्थयोरार्थमौपम्यं दृष्टान्त इति निष्कर्षों बोध्यः । करैः किरणैः । कुलानि समूहान् । अपिना इन्दुपुरुषादिसंग्रहः । प्रतिबिम्बित इत्यस्य इतीति शेषः । तदुपेति । अप्रकृता- V>