पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। म्यमिति वाच्यम् । औपम्यं न विवक्षितमित्यत्रैकवारं निष्ठया परामृष्टस्यैव पुनस्तया परामर्शस्य व्युत्पत्तेः । न चैत्रार्थमोदनः पक्वः । यदर्थं च पक्वः स मैत्रः इत्यादौ द्वितीयपक्वादिशब्दानामध्याहृतशाकादिपरत्वे असंगतेः स्फुटत्वात् । तस्मादस्मदुक्तेनैव पथा प्राचीनैर्विहितोऽलंकारयोरनयोविभागः संगमनीयः । यदि तु न तेषां दाक्षिण्यं तदैकस्यैवालंकारस्य द्वौ भेदौ-प्रतिवस्तूपमा, दृष्टान्तश्च । यच्चानयोः किंचिद्वैलक्षण्यं तत्प्रभेदताया एव साधकम्, नालंकारताया इति सुवचम् । वैधर्म्येणायं यथा- 'जनयन्ति परप्रीतिं नराः सत्कुलसंभवाः । नहि कारस्करः क्वापि तापनिर्वापणक्षमः ॥' यथा वा- 'तापत्रयं खलु नृणां हृदि तावदेव यावन्न ते वलति देव कृपाकटाक्षः । प्राचीललाटपरिचुम्बिनि भानुबिम्बे पङ्केरुहोदरगतानि कुतस्तमांसि ॥' प्रीतिजननतापनिर्वापणाभावयोस्तापत्रयावस्थानतमोदूरीकरणयश्च वैधर्म्येणात्र बिम्बप्रतिबिम्बभावः । इति रसगङ्गाधरे दृष्टान्तप्रकरणम् । अथ निदर्शना- उपात्तयोरर्थयोरार्थाभेद औपम्यपर्यवसायी निदर्शना । अतिशयोक्त्यादीनां ध्वन्यमानरूपकस्य च वारणाय उपात्तयोरिति । कारसर्वस्वेत्यर्थः । तया निष्ठया। तत्र हेतुमाह-न चैत्रार्थमिति । असंगतेरिति । कव्यभिप्रायाप्रतिपादनादिति भावः । उपसंहरति-तस्मादिति । पथा मार्गेण । तेषां प्राचीनानाम् । एकस्यैवेति । उपमारूपस्यैवेत्यर्थः । प्रभेदेति । उपमाप्रभेदताया एवेत्यर्थः । परप्रीतिं परेषां प्रीतिम् । कारस्करः ['कुचला' इति प्रसिद्धो वृक्षः । तापत्रयमाध्यात्मिकादिदुःखत्रयम् । वलति प्रविशति। वैधर्म्येणेति। उपपादितमिदमधस्तात् ॥ इति रसगङ्गाधरमर्मप्रकाशे दृष्टान्तप्रकरणम् ॥ अथ निदर्शनां लक्षयति-अथेति । औपम्यपर्यवसायी औपम्यमूलः । नन्वतिशयोक्त्यादौ नाथद्वयमत आह-ध्वन्यमानेति । न वार्थत्वमर्थसंबन्धित्वम् । तथा च