पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। ३२७ चौपम्यानापत्तेश्च । तस्मात्तुल्ययोगिताया एव त्रैविध्यमुचितम् । प्रकृतानामेव धर्मस्य सकृद्वृत्तिः, अप्रकृतानामेव, प्रकृताप्रकृतानां चेति । एवं च प्राचीनानां तुल्ययोगितातो दीपकस्य पृथगलंकारतामाचक्षाणानां दुराग्रहमात्रमिति नव्याः। अमुं चालंकारं धर्मस्य गुणक्रियाद्यात्मकस्यादिमध्यावसानगतत्वेन त्रिविधमामनन्ति । यथा- 'न भाति रमणीयोऽपि वैराग्येण विना यतिः । वैदुष्येण विना विप्रो नरलोकस्त्वया विना ॥' 'लावण्येन प्रमदा मदातिरेकेण वारणाधिपतिः । भाति विभवेन भवकान्राजन्भवता च वसुमतीवलयम् ॥ 'आखण्डलेन नाकः कुण्डलिकुलकुण्डलेन पातालम् । नरमण्डन रिपुखण्डन भवता भूमण्डलं विभातितमाम् ॥' एवं तुल्ययोगितायामप्यूह्यम् । वस्तुतस्तु धर्मस्यादिमध्यान्तगतत्वेऽपि चमत्कारवैलक्षण्याभावात्रैविध्योक्तिरापातमात्रात् । अन्यथा धर्मस्योपायुपमध्योपान्त्यगतत्वे ततोऽपि किंचिन्न्यूनाधिकदेशवृत्तित्वे चानन्तभेदप्रसङ्गात् । एवं केवलानुगामिसाधारणधर्मतायां दर्शितं दीपकम् । बिम्बप्रतिबिम्बभावेनाप्येतत्संभवति । यथा- 'शीलभारवती कान्ता पुष्पभारवती लता । अर्थभारवती वाणी भजते कामपि श्रियम् ॥' 'लता कुसुमभारेण शीलभारेण सुन्दरी । कविता चार्थभारेण श्रयते कामपि श्रियम् ॥' नापत्तश्चेति । वैपरीत्यादिति भावः । गतत्वेन निष्ठत्वेन । रमणीयोऽपि श्रुताचारसं- पन्नोऽपि । यतिः संन्यासी । राजवर्णनमिदम् । एवमग्रेऽपि । मदेति । मदोत्कर्षेणेत्यर्थः । वारणेति । गजेन्द्र इत्यर्थः । भवकानित्यकच्प्रत्ययः । भवानित्यर्थः । 'भगवान्' इत्यपपाठः । कुण्डलीति । सर्पसमूहकुण्डलेनेत्यर्थः । नरेत्यादि संबोधनद्वयम् । आमनन्तीति सूचितामरुचिमाह -वस्तुतस्त्विति । अन्यार्थवैलक्षण्याभावेऽपि भेदाङ्गीकारे। उपादीत्यादि । आदिसमीपेत्याद्यर्थः । उपसंहरति-एवमिति । इद-