पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३२८ काव्यमाला। इदमेव लतादिष्वन्यतमस्य प्राकरणिकत्वे दीपकस्योदाहरणम् । अन्यथा तुल्ययोगितायाः। अत्र बिम्बप्रतिबिम्बतायां न केवलं क्रियारूपमनुगामिमात्रं चमत्कारकारणम्, अपि तु कुसुमादिबिम्बप्रतिबिम्बकरम्बितम्। इयांस्तु विशेषः-यत्केवलबिम्बप्रतिबिम्बभावेनाप्युपमादीनां भवति निष्पत्तिः । यथा 'कोमलातपबालाभ्र-'इत्यादौ । प्रकृते तु न यथा । अनुगामिनं विना धर्मस्वरूपस्यैवानिष्पत्तेः । नहि बिम्बप्रतिबिम्बमात्रेण धर्मस्य सकद्वृत्तिः संभवति । तथा 'मृतस्य लिप्सा-' इत्यादि प्रागुक्ते मृतादीनाम् । कारकदीपके कारकतुल्ययोगितायां च 'वसु दातुं-' इत्यादौ क्रियाणां धर्मित्वात्तद्विशेषणानां वस्वादीनां च बिम्बप्रतिबिम्बता बोध्या। उत्तरोत्तरस्मिन्पूर्वपूर्वस्योपकारकतायां मालादीपकम् । यथा- 'आस्वादेन रसो रसेन कविता काव्येन वाणी तया लोकान्तःकरणानुरागरसिकः सभ्यः सभा चामुना । दारिद्यानलदह्यमानजगतीपीयूषधाराधर क्षोणीनाथ तया भवांश्च भवता भूमण्डलं भासते ॥' एतच्च प्राचामनुरोधादस्माभिरिहोदाहृतम् । वस्तुतस्त्वेतद्दीपकमेव न शक्यं वक्तुम् । सादृश्यसंपर्काभावात् । किं त्वेकावलीप्रभेद इति वक्ष्यते । अस्मिश्चालंकारद्वये क्रियादेर्धर्मस्यैकरूप्येण धमिध्वनन्वयो दोषः । यथा प्रागुक्ते पद्ये रसिकाः सामाजिकास्तैः सभा इति कृते एकवचनान्तैर्मिभिरैकरूप्येणान्वयेऽपि सामाजिकैरनन्वयात् । वचनविपरिणामेनान्वये उपमायामिव स्यादेव दोषः । एवं जहल्लिङ्गनामार्थस्य धर्मस्य सकृद्वृत्तौ लिङ्गभेदोऽपि दोषः । यथा- 'जगति नरजन्म तस्मिन्वैदुष्यं तत्र सत्कविता । कवितायां परिणामो दुष्प्रापः पुण्यहीनेन ।' मेव उदाहरणद्वयमेव । बिम्बेति । विलक्षणशोभाश्रयणानामित्यादिः । तुल्ययोगितायां चेति । अस्याग्रेऽन्वयः। वस्वादीनां चेति । चेन मृतादीनां समुच्चयः । उपमायामिव स्यादेवेति । तेन धर्मेणोपमा गम्या न स्यादिति भावः । लिङ्गभेदोऽपीति । धर्मिणामिति शेषः । एवमग्रेऽपि । जगतीति । अत्र दुष्प्राप इति