पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। यश्च सुधां पातुं योऽपि कीर्ति साधयितुं यश्च लक्ष्मीमर्जयितुं यश्चापि त्वद्भक्तिं कर्तुं मन्दादरस्तं सर्वमपि जनं पशुं मन्ये इति तुमुन्नन्तानां भिन्नकर्तृत्वेऽप्युपपत्तेरेककारकान्वयकृतं क्रियाणामौपम्यं चमत्कारीति न शक्यते वक्तुम् । किं तु शशिमुखीसुधाकीर्तिलक्ष्मीत्वद्भक्तीनां बिम्बप्रतिबिम्बभावकृतम् । नापि चात्रैककर्तृत्वे काचिदर्थस्यास्ति परिपुष्टिः । प्रत्युत प्रातिकूल्यम् । सर्वेषां पशुत्वोत्यपेक्षया सकलतादृशक्रियाकरणमन्दादरस्यैकस्य पशुत्वोक्तेररमणीयत्वात् । यदि तु विमर्शिनीकारोक्तिरवश्यं समर्थनीयेत्याग्रहस्तदेत्थं समर्थ्यताम्-क्रियाणां कर्तुरेकत्वाभावेऽपि कर्तृतावच्छेदकस्य मन्दादरत्वस्यैक्यात्तस्यैव च परम्परासंबन्धेनानेकक्रियासाधारणधर्मस्य सकद्वृत्तिरस्तीति न दोषः । कारकस्येव कारकविभाजकोपाध्यवच्छेदकस्यापि सकृद्वृत्तेः कारकदीपकत्वेन परिभाषितुं शक्यत्वात् । कारकसकृद्वत्तेस्त्वस्माभिरुक्तमेवोदाहरणमनुसर्तव्यम् । अत्रेदं बोध्यम्-तुल्ययोगितातो दीपकं न पृथग्भावमर्हति । धर्म- सकृद्वृत्तिमूलाया विच्छित्तेरविशेषात् । विच्छित्तिवैलक्षण्यस्यैवालंकारविभागहेतुत्वात् । न च धर्मस्य सकद्वृत्तेरविशेषेऽपि धर्मिणां प्रकृतत्वाप्रकृतत्वाभ्यां प्रकृताप्रकृतत्वेन च तुल्ययोगितायां दीपकस्य विशेष इति वाच्यम् । तवापि तुल्ययोगितायां धर्मिणां केवलप्रकृतत्वस्य केवलाप्रकृतत्वस्य च विशेषस्य सत्त्वादलंकारद्वैतापत्तेः । श्लेषेऽपि द्वैतापत्तेश्च । सर्वेषामप्यलंकाराणां प्रभेदवलक्षण्याद्वैलक्षण्यापत्तेश्च । न च दीपके वास्तवमौपम्यं गम्यम् । उपमानोपमेययोः प्रकृताप्रकृतरूपयोस्तत्र सत्त्वात् । तुल्ययोगितायां च वैवक्षिकम् । उपमानोपमेयस्वरूपाभावात् । अतो वैलक्षण्यमिति वाच्यम् । उपमेयोपमानत्वयोः प्रताप्रकृतरूपत्वे मानाभावात् । 'खमिव जलं जलमिव खम्' इत्याद्युपमेयोपमायां प्रतीपे भावः । नन्वेवमपि कारकस्य सकृद्वृत्तेरभावात्कथं तत्त्वमत आह-कारकस्येवेति । कारकशब्द उभयपर इति भावः । तर्हि कारकदीपकस्य किमुदाहरणमत आह-कारकेति । क्रमेणाह-प्रकृतत्वेति । न केवलमत्रैव दोषोऽपि त्वन्यत्रापीत्याह-श्लेषेऽपीति । भङ्गाभङ्गभेदादिति भावः । न केवलमेतावदित्याह-सर्वेषामिति ।