पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२५
रसगङ्गाधरः।


द्वयमिति वाच्यम् । कारकतुल्ययोगितोच्छेदापत्तेः सकलालंकारिकसि- द्वान्तविरोधापत्तेश्च । लक्षणद्वयस्यानुगतत्वाच्च । तादृशलक्षणद्वयान्यतर- वत्त्वस्य लक्षणत्वे गौरवादुल्वपप्रसङ्गाञ्च । एवं च 'स्विद्यति कूणति--' इत्याघुदाहरणमपि न संगच्छते । क्रियाणां शुद्धप्रकृतत्वात् । किं च दीपकतुल्ययोगित्वादौ गम्यमानमौपम्यं जीवातुरिति सर्वेषां संमतम् । न चात्र स्वेदनकुणनादीनामेककारकान्वितानामप्यौपम्यं कविसंरम्भगोचरः। तस्मात्समुच्चयालंकारच्छायात्रोचिता । अस्मदुदीरितानां वसुदानादीनां ही- नसत्त्ववासनादीनां च राजकर्तृकाणां पद्यद्वयगतानामौपम्यप्रतीतौ सहृदय- हृदयमेव प्रमाणमिति न प्रतिवन्दिदानावसरः । यदि तु स्वेदनादीनामौ- पम्यं प्रतीयत एवेत्याग्रहस्तथापि क्रियाणां शुद्धप्रकृतत्वात्तुल्ययोगिता स्यादपि, न तु दीपकमित्यास्तां तावत् । यदपि विमर्शिनीकृतोदाहृतम्- "आलिङ्गितुं शशिमुखीं च सुधां च पातुं कीर्ति च साधयितुमर्जयितुं च लक्ष्मीम् । त्वद्भक्तिमदुतरसां हृदये च कर्तु मन्दादरं जनमहं पशुमेव मन्ये ॥' अत्रालिङ्गनाद्यनेकक्रियाकर्तृत्वेनैक एव जनो निर्दिष्ट इति ।" तदपि चिन्त्यम् । आलिङ्गनादीनां क्रियाणां मन्दादरत्वेनैकाश्रयकत्वस्याश्यकत्वे- ऽपि परस्परमेकाश्रयकत्वस्यानावश्यकत्वात् । यः शशिमुखीमालिङ्गितुं धर्मस्येति । सकृद्रृत्तेर्पिकत्वमित्यर्थः। उच्छेदापत्तेरिति । त्वद्रीत्या कारकदी- पकेनैव तत्र भाव्यमिति भावः । इष्टापत्तावाह-सकलेति । तत्रापीष्टापत्तावाह- लक्षणेति । अनुगमसत्त्वानायं दोषोऽत आह-तादृशति । नन्वगत्या गौरवस्वी. कारोऽत आह-उपप्लवेति । प्रागुक्तरीत्यान्यतमवत्त्वेन सर्वेषामैक्ये उपमायुच्छेदाप- त्तेरित्यर्थः । एवं च उक्तभेदानङ्गीकारे च । प्रकृताप्रकृतत्वे एव तदङ्गीकारादाह-क्रि- याणामिति । कविसंरम्भगोचर इति । केवलं तादृशनायिकास्वभाववर्णनस्यैव तत्त्वादिति भावः । चकाराभावादाह-छायेति । अत्र स्विद्यतीत्यादौ । नन्वेवं त्व- दुदाहरणेऽप्यौपम्ये तदविषयत्वात्कथमेतदुदाहरणत्वमत आह-अस्मदिति । आ- लिङ्गितुमिति । ईश्वरं प्रति भक्तोक्तिः । इदं सर्वे कर्तुं यो मन्दादरस्तं जनमहं पशु- मेव मन्ये इत्यर्थः । आवश्यकत्वेऽपीति । मन्दादरत्वस्य सर्वत्र विशेषणत्वादिति