पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३२४ काव्यमाला। अत्र वृत्तिहीनस्य कस्यचिद्दीनस्य वचने वसुदानवत्राणलक्षणयोः क्रिययोः प्रकृतयोः, अरिमर्दनस्य चाप्रकृतस्य, यशोधानस्य चोभयात्मनः साधारणं कर्तृकारकम् । यथा वा- 'वासयति हीनसत्त्वानतिसत्त्वानुद्धतान्विवासयति । त्रासयति सकलशत्रून्नीतिविदामग्रणीर्नराधिपतिः॥' अत्र कस्यचिद्धीनसत्त्वस्य, सत्त्वाधिकमसहमानस्य वा, शत्रुपरिपीडितस्य वा कस्यचिद्राजानं कंचित्प्रत्युक्तौ सामान्यविशेषरूपायामप्रस्तुतप्रशंसायामकस्याः क्रियायाः प्रकृतायाः इतरयोश्चाप्रकृतयोः साधारणं तत् । यदि तु प्रागुक्तवक्तृभिन्नस्य कस्यचिद्राजस्तोतुर्नीतिमात्रबोधकस्य चेयमुक्तिस्तदा क्रियाणां प्रकृताप्रकृतरूपत्वाभावात्तुल्ययोगितैव । यत्तु- 'सकृद्वृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम् । सैव क्रियासु बह्वीषु कारकस्येति दीपकम् ॥ इति लक्षणमुक्त्वा 'विद्यति कूणति वेल्लति विवलति] निमिषति विलोकयति तिर्यक् । अन्तर्नन्दति चुम्बितुमिच्छति नवपरिणयाः वधूः शयने ।' इति द्वितीयं दीपकमुदाहृतं काव्यप्रकाशद्भिः । तत्र विचार्यते- प्रथमागितलक्षणेनैव दीपकद्वयस्यापि संग्रहाद्वितीयं लक्षणं व्यर्थम् । गुणिनां कारकाणां च गुणक्रियारूपधर्मस्येव क्रियाणामपि कारकरूपधर्मस्य सत्तेः साम्राज्यात् । न च क्रियाणां प्रकृताप्रकृतात्मताविरहेऽपि शुद्धप्रकृतत्वे शुद्धाप्रकृतत्वेऽपि वा कारकस्य सकृद्वृत्तेर्दीपकत्वम्, क्रियाभिन्नानां तु प्रकृताप्रकृतात्मतायामेव क्रियादेर्धर्मस्येति वैलक्षण्याल्लक्षण- ना कर्मकरणाधिकरणानि ग्राह्याणि । मन्दाक्षं लज्जाम् । वृत्तीति । जीवनेत्यर्थः । पद्यक्रमणोक्तिक्रममाह-अत्रेति । अप्रस्तुतप्रशंसाया अनेकविधत्वादाह-सामान्येति । पूर्वार्धेन सामान्यतो राजस्तुतिः, उत्तरार्धेन विशेषत इति भावः । एकस्या इति । यदीयोक्तिस्तदीयाया इत्यर्थः । तत्कर्तृकारकम् । नीतिविदामग्रणीरित्युक्तत्वादाह-नीतीति । धर्मस्य क्रियादेः । त्मनां कारकाणाम् । सैव सकृदृत्तिरेव । कूणति संकुचति । वेलाति श्लिष्यति । क्रियाभिन्नानामिति । गुणिनां कारकाणां चेत्यर्थः ।