पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। - उदाहरणम्- 'अमृतस्य चन्द्रिकाया ललितायाश्चापि कवितायाः । सुजनस्य च निर्माणं जनयति नहि कस्य संतोषम् ॥' यथा वा- 'सुधायाश्चन्द्रिकायाश्च संजीविन्या महौषधेः । दयादृष्टश्च ते राजन्विश्वसंजीवनं गुणः ॥' यथा वा- 'मृतस्य लिप्सा कृपणस्य दित्सा विमार्गगायाश्च रुचिः स्वकान्ते । सर्पस्य शान्तिः कुटिलस्य मैत्री विधातृसृष्टौ नहि दृष्टपूर्वा ॥' अत्राभावः साधारणो धर्मः। कस्यचित्प्रकृतत्वे दीपकम् । अन्यथा तुल्ययोगितैव । यत्र क्रिया साधारणो धर्मस्तत्र यावतां कादिकारकाणां संनिधानं तेषां स्वसजातीयेनान्येन सह तुल्ययोगिता, दीपकं वा पृथक्पृथग्भवति । औपम्यस्यापि पृथगेव भासमानत्वात् । यथा- 'सुजनाः परोपकारं शूराः शस्त्रं धनं कृपणाः । कुलवत्यो मन्दाक्षं प्राणात्यय एव मुञ्चन्ति ॥' अत्र कर्तृकर्मणोः । एवं वक्ष्यमाणे 'लावण्येन प्रमदा-' इत्यत्र कर्तृकरणयोः । 'दिवि सूर्य-' इत्यत्र कर्त्रधिकरणयोः। अमुनैव न्यायेनानेकासां क्रियाणामेककारकान्वये कारकदीपकम् । यथा- 'वसु दातुं यशो धातुं विधातुमरिमर्दनम् । त्रातुं च मादृशान्राजन्नतीव निपुणो भवान् ॥' कन् । अमृतस्येति । अत्र ललितत्वविशेषणोक्तेः कवितायाः प्रकृतत्वं बोध्यम् । इदं गुणस्योदाहरणम् । क्रियोदाहरणमाह-सुधाया इति । अत्र राजवर्णनेन दयादृष्टेरेव प्रकृतत्वम् । अभावोदाहरणमाह-मृतस्येति । विमार्गेति । परपुरुषगामिन्या इत्यर्थः । अत्राह-कस्यचिदिति । प्रकरणादिनेति भावः । कर्त्रादीति । आदि-