पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३२२ काव्यमाला। अत्रार्थान्तरन्यासान्विता । केऽपि स्मरन्त्यनुसरन्ति च केचिदन्ये पश्यन्ति पुण्यपुरुषाः कति च स्पृशन्ति । मातर्मुरारिचरणाम्बुजमाध्वि गङ्गे भाग्याधिकाः कतिपये भवती पिबन्ति ॥' अत्रैकं कर्मक्रियाणां साधारणम् । व्यङ्गयैषा यथा- 'अये लीलाभग्नत्रिपुरहरकोदण्डमहिम- न्कथा यत्रोदश्चत्यतुलबलधैर्यस्य भवतः । अयं को वा तत्र प्रसृमरफणाकोणनिहित- क्षितिः शेषः श्रीमान्कमठकुलचुडामणिरपि ॥' अत्र को वा इत्यनेन वाच्यलक्ष्यव्यतिरिक्तस्यागणनीयत्वस्य शेषकमठाभ्यामप्रकृताभ्यामन्वयः प्रतीयते । इति रसगङ्गाधरे तुल्ययोगिताप्रकरणम् । अथ दीपकम्- प्रकृतानामप्रकृतानां चैकसाधारणधर्मान्वयो दीपकम् । प्राग्वदेवात्राप्यौपम्यस्य गम्यत्वम् । प्रकृतार्थमुपात्तो धर्मः प्रसङ्गादप्रकृतमपि दीपयति प्रकाशयति सुन्दरीकरोतीति दीपकम् । यद्वा दीप इव दीपकम् । संज्ञायां कन् । दीपसादृश्यं च प्रताप्रकृतप्रकाशकत्वेन बोध्यम् । करोति नाशयति । न्यासान्वितेति । कारकतुल्ययोगितेति शेषः । विशेषस्य सामान्येन समर्थनात्तन्मिश्रत्वमिति भावः । अम्बुजमाध्वि कमलमकरन्दरूपे । अये इति । श्रीरामवर्णनमिदम् । अत एव तयोरप्रकृतत्वम् । हे राम, यत्र स्थले तव कथा निःसरति तत्र शेषः कूर्मश्च भूधारकः को वा । न कोऽपीत्यर्थः । इत्यनेनेति । व्यज्यमानस्येति शेषः । अत एव वाच्येति ॥ इति रसगङ्गाधरममप्रकाशे तुल्ययोगिताप्रकरणम्।। अथ दीपकं निरूपयति-अथेति । अत्राप्यौपम्यस्येति । परंतु प्रकृतमुपमेयमप्रकृतमुपमानमिति बोध्यम् । योगरूढं दीपकपदमित्याह-प्रकृतेति । प्रकाशनासंभवादाह-सुन्दरीति । नन्वेवमत्राभाव्यमत आह-यद्वेति । 'संज्ञायां कन्' इति