पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

३१४ काव्यमाला । न्यतमत्वमनुगतमिति शक्यते वक्तुम् । विच्छित्तिवैलक्षण्ये सत्यन्यतमत्वस्याप्रयोजकत्वात् । अन्यथोपमारूपकादिकतिपयान्यतमत्वं सकलान्यतमत्वं वा तल्लक्षणम् । उपमादयश्च तद्भेदा इत्येव किं न ब्रूयाः । अलंकारान्तरत्वे गौरवमित्यपि न वाच्यम् । नह्यत्राक्लृप्तपदार्थकल्पनं येन गौरवं स्यात् । प्रधानोत्कर्षतारूपस्यालंकारत्वस्य त्वयापि स्वीकारात् । अलंकारविभाजकोपरिपरिगणनस्य च पुरुषपरिकल्पितत्वात् ।' इत्यपि वदन्ति । 'गगनचरं जलबिम्बं कथमिव पूर्णे वदन्ति विद्वांसः । दशरथचत्वरचारी हृज्ज्वरहारी विधुस्तु परिपूर्णः ॥' इत्यादौ विषयिणः स्वाभाविकस्य निह्नवेन दृढाध्यवसानातिशयोक्तिः। यत्तु कुवलयानन्दे- 'यद्यपह्नवगर्भत्वं सैव सापह्नवा मता । त्वत्सूक्तिषु सुधा राजन्भ्रान्ताः पश्यन्ति तां विधौ ॥ इत्यत्र पर्यस्तापह्नुतिगर्भामतिशयोक्तिमाहुस्तञ्चिन्त्यम् । पर्यस्तापहृतेरपडु- तित्वं न प्रामाणिकसंमतमिति प्रागेवावेदनात् । यदपि तैरेवोक्तम्- 'संबन्धातिशयोक्तिः स्यादयोगे योगकल्पनम् । सौधाट्टानि पुरस्यास्य स्पृशन्ति विधुमण्डलम् ॥' इति । तथा च तेन रूपेण कदापि बोधाभावे न तद्रूपस्याभेदस्य भेदेन त्वदुक्तं निगरणमसंगतमिति भावः । तेषामननुगतत्वादिति निगीर्य प्रकृतस्य समेनाध्यवसानं भेदेनाभेदस्य संबन्धेनासंबन्धस्येत्यादिसकलसाधारणस्यैकस्य धर्भस्याभावादतिशयोक्तिलक्षणस्याननुगतत्वापत्तिरिति भावः । वैलक्षण्ये सतीति । तथा च भिन्नभिन्न एवालंकार इति भावः । अभ्युपेत्याह-अन्यथोपमेति । प्रागुक्तरोत्या आह-कतिपयेति । यस्य कस्यचिदतिशयस्य सर्वत्र सत्त्वादाह-सकलेति । तल्लक्षणमतिशयोक्तिलक्षणम् । तद्भेदा अतिशयोक्तिभेदाः । ननु गौरवादाधिक्यं नात आह- अलंकारान्तरेति । क्लृप्तत्वमेवाह-प्रधानोत्कर्षेति । ननु सामान्यतोऽलंकार- सत्त्वेऽपि तद्विभाजकोपाधिमध्येऽपाठादाधिक्येन गौरवं तदवस्थमेवात आह-अलंकारेति । दृढाध्यवसानातिशयोक्त्युदाहरणमाह-गगनेति । गगनगामीत्यर्थः । जलबिम्बं चन्द्ररूपम् । विधुस्तु श्रीरामचन्द्रस्तु । स्वाभाविकेति । गगनरूपेत्यर्थः । निद्ववेनेति । कथमिवेत्यनेनेति भावः । मूल एव कुठार इत्याह-पर्यस्तेति ।