पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

रसगङ्गाधरः। ३१५ तदपि न । अत्रैव 'स्पृशन्तीवेन्दुमण्डलम्' इति कृते कोऽलंकारः । उत्प्रेक्षेति चेत्, तर्हीवादेरभावाद्गम्योत्प्रेक्षेयमुचिता। इवादिसत्त्वे या वाच्योत्प्रेक्षा सैवेवाद्यभावे गम्योत्प्रेक्षेति नियमस्य सर्वसंमतत्वात् । 'त्वत्कीर्तिर्भ्रमणश्रान्ता विवेश स्वर्गनिम्नगाम्' इति त्वदुक्तगम्योत्प्रेक्षायाः 'सौधाट्टानि' इत्यस्य चोत्प्रेक्षांशे विशेषानुपलम्भात् । तथा हि 'त्वत्कीर्तिर' इत्यादौ बहुदूरगमने स्वर्गगमने वा स्वर्गङ्गाप्रवेशतादात्म्योत्प्रेक्षेति नये स्वर्गसंबन्धित्वरूपानुपात्तधर्मनिमित्तेयम् । कीर्तौ स्वर्गङ्गाकर्मकप्रवेशकर्तृत्वोत्प्रेक्षेति नये तादृशगमनरूपानुपात्तधर्मनिमित्ता । विशेषणीभूतभ्रमणभ्रान्तत्वरूपहेतूत्प्रेक्षेति नये तु ताद्दग्गमनतादात्म्याध्यवसितस्वर्गङ्गाप्र- वेशरूपोपात्तधर्मनिमित्तेति सर्वथा गम्यैव । 'सौधाट्ठानि-' इत्यत्र परमोर्घ्वदेशसंयोगे चन्द्रमण्डलस्पर्शतादात्म्योत्प्रेक्षायां परमोर्घ्वदेशवृत्तित्वरू- पानुपात्तधर्मनिमित्ता । तादृशस्पर्शकर्तृत्वोत्प्रेक्षायां तु परमोर्ध्वदेशसंयोगरूपानुपात्तधर्मनिमित्तेति । इयमपि गम्योत्प्रेक्षैव । तस्मादुत्प्रेक्षासामग्री यत्र नास्ति तादृशमुदाहरणमुचितम् । यथास्मदीयं 'धीरध्वनिभिर्-' इत्यादि । सुन्दरत्वे सत्युपस्कारकत्वमलंकारसामान्यलक्षणमिहापि न विस्मरणीयम् । तैरेव अप्पदीक्षितैरेव । तदपि नेति । सिद्धान्तविरोधादिति शेषः । तमेवाह-अत्रैवेत्यादिना। नन्वन्यसंमतत्वेऽपि तथा न मम संमतमत आह-त्वत्कीर्तिरिति । इत्यस्य चेति । उत्प्रेक्षाया इति । षष्ठीति भावः । ननु तस्या भूमण्डले बहुदूरगमनेऽपि स्वर्गङ्गाप्रवेशतादात्म्योत्प्रेक्षा तत्र न संभवतीत्यत आह-स्वर्गेति । विशेषेति कीर्तावित्यादिः । तादृशेति । स्वर्गगमनेत्यर्थः । परमोर्ध्वेति । गृहाग्राणामित्यादिः । इयमपि गम्योत्प्रेक्षैवेति । अत्रेदं चिन्त्यम् - 'नूनं मुखं चन्द्रः' इत्यादौ नूनंपदाभावे प्रतीयमानस्य रूपकस्यानापत्तेरुत्प्रेक्षाया आपत्तेश्च । 'त्वत्कीर्तिभ्रमणश्रान्ता' इत्यत्र तु बहुदूरगमने स्वर्गगमने वा स्वर्गङ्गाप्रवेशतादात्म्योत्प्रेक्षा कीर्तौ स्वर्गङ्गाप्रवेशकर्तृत्वोत्प्रेक्षयावश्यं स्वीकार्या । अन्यथा भ्रमणश्रान्तत्वरूपविशेषणवैयर्थ्यापत्तेः । तद्वत्प्रकृते उत्प्रेक्षासाधकं नास्ति येन तथा स्यात् । भ्रमणश्रान्तत्वरूपहेतूत्प्रेक्षायां तु न कश्चिद्दोषः । स्वर्गसंबन्धित्वं स्वर्गगमनं स्वर्गङ्गाप्रवेशरूपोपात्तो वा धर्मों निमित्तमिति बोध्यम् । उदाहरणमिति । संबन्धातिशयोक्तेरिति भावः । दुःखयोरि-