पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

३१३ रसगङ्गाधरः। द्वितीयो यथा- 'पुरः पुरस्तादरिभूपतीनां भवन्ति भूवल्लभ भस्मशेषाः । अनन्तरं ते भ्रुकुटीविटङ्कात्स्फुरन्ति रोषानलविस्फुलिङ्गाः ॥' अत्र भेदद्वये प्रयोजकातिशयकृतः प्रयोज्यशैघ्र्यातिशयो गम्यः । एवं च 'एतद्भेदपञ्चकान्यतमत्वमतिशयोक्तिसामान्यलक्षणम्' इति प्राचीनाः। अन्ये तु-संबन्धेऽसंबन्धः असंबन्धे संबन्ध इति भेदद्वयं नातिशयोक्तिः । एतादृशातिशयस्य रूपकदीपकोपमापहुत्यादिषु स्वभावोक्तिभिन्नेषु प्रायशः सर्वेष्वलंकारेषु सत्त्वात् । नहि यथास्थितवस्तूक्तावस्ति काचिद्विच्छित्तिः। कार्यकारणपौर्वापर्यविपर्ययस्यापि तेनैव व्याप्ततया भेदान्तरतानापत्तेश्च । तस्माद्विषयिणा निगीर्याध्यवसानं विषयस्य, तस्यैवान्यत्वम्, यद्यादिशब्दैरसंभविनोऽर्थस्य कल्पनम्, कार्यकारणपौर्वापर्यविपर्ययश्चेत्येतदन्यतमत्वमतिशयोक्तित्वम्' इत्याहुः । नव्यास्तु-निगीर्याध्यवसानमेवातिशयोक्तिः । प्रभेदान्तरं त्वनुगतरूपाभावादलंकारान्तरमेव । ननु प्रस्तुतान्यत्वभेदे भेदेनाभेदस्य, असंबन्धे संबन्ध इति भेदे संबन्धेनासंबन्धस्य, संबन्धेऽसंबन्ध इति भेदे असंबन्धेन संबन्धस्य, कार्यकारणपौर्वापर्यविपर्यये च तेनैवानुपूर्वी । अस्य च निगरणं रत्नाकरविमर्शिनीकाराघुक्तप्रकारेण संभवतीति चेत्, न । अन्यत्वादिभिरनन्यवस्तुप्रतीतेरेव चमत्कारित्वम् । न त्वनन्यत्वादिभिः । तेषामनुभवासंगतेः । न चा- समुच्छलनं तत्र हेतुरिति बोध्यम् । पुर इति । राजवर्णनमिदम् । हे भूवल्लभ, पुरः पुरस्तात् पूर्वेपूर्वे शत्रुरूपाणां राज्ञां भस्मरूपाः शेषा अवशेषा भवन्ति पश्चात्तव भ्रकुट्येव विटङ्कं कपोलपालिका तस्माक्रोधरूपाग्नेर्विस्फुलिङ्गाः स्फुरन्तीत्यर्थः । अत्र भेदद्वये बाधितत्वं परिहरति-अत्रेति । स्वभावोक्तौ सर्वथा तदसत्त्वादाह -स्वभावोक्तीति। अन्यत्रापि क्वचिदसत्त्वादाह-प्रायश इति । सत्त्वादिति । तथा च तेषामप्यतिशयोक्तित्वापत्तिरिति भेदेन तत्कथनासंगत्यापत्तिरिति भावः । ननु तर्हि तत्र कोऽलंकारोऽत आह-नहीति । अभ्युपेत्याप्याह-कार्येति तेनैव प्राचीनोक्तभेदद्वयेनैव । अभेदस्येत्यादि षष्ठयन्तानां वक्ष्यमाणनिगरणेऽन्वयः । विपर्यये च विपर्यय इति भेदद्वये च । तेनैव कार्यकारणपौर्वापर्यविपर्ययेणैव । न त्वनन्यत्वादिभिरिति । १. हे भूवल्लभ, पुरस्तात् प्रथमं अरिभूपतीणां शत्रुनृपाणां पुरो नगर्यो भस्मशेषा भवन्ति अनन्तरं-इत्यादि समुचितोऽर्थः.