पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

३१२ काव्यमाला। यथा वा- 'गिरं समाकर्णयितुं यदीयां सदा रसज्ञैरनुभावनीयाम् । समीहते नित्यमनन्यचेता नभस्वदात्मभरिवंशनेता ॥' यथा वा- 'तिमिरशारदचन्दिरतारकाः कमलविद्रुमचम्पककोरकाः। यदि मिलन्ति कदापि तदाननं खलु तदा कलया तुलयामहे ॥ पूर्वत्र निर्णीयमानः, इह तु संभाव्यमान इति विशेषः । तथान्यः प्रकारः-यत्र संबन्धेऽप्यसंबन्धः । यथा- 'पीयूषयूषकल्पामल्पामपि ते गिरं निपीतवताम् । तोषाय कल्पते नो योषाधरबिम्बमधुरिमोद्रेकः ॥' अत्र तोषसंबन्धेऽप्यसंबन्धः । एवमेवान्योऽपि प्रकारः—यत्र प्रयोजकस्य प्रयोज्यस्य च पौर्वापर्यविपर्ययः । स च द्वयोः सहभावासहभावात्, प्रयोजकस्य प्रयोज्यानन्तरभावाद्वेति द्वेधा । आद्योयथा-'प्रतिखुरनिकरशिलातलसंघटसमुच्छलद्विद्युद्वल्लीकृत- विस्फुलिङ्गच्छटापटलानां वाजिनाम्' इति हयवर्णने समुच्छलनविद्युद्वल्लीकरणयोः सहोत्पत्तिर्गम्यते । षष्ठया वा' इति समासः । यदीयामिति । प्रकृतवर्णनीयराजकीयामित्यर्थः । नभस्वदिति । नभस्वता वायुना आत्मानं बिभ्रति ये सर्पास्तेषां वंशस्य कुलस्य नेता नायकः । शेष इत्यर्थः । अत्र तदाकर्णनसमीहासंबन्धेऽपि तदुक्तिस्तद्वैदुष्यातिशायिका । चन्दिरेति । चन्द्रेत्यर्थः । मिलन्ति एकत्र तिष्ठन्ति । तदाननं तस्या वर्ण्याया नायिकाया मुखम् । कलया न तु सर्वांशेन । पूर्वत्र पूर्वयोः । इह त्विति । यदीत्यस्य संभावनाबोधकत्वादिति भावः । यथेति । पीयूषममृतमेव यूषो मण्डविशेषस्तेन ईषन्न्यूनाम् । ते वर्णनीयस्य राज्ञः । समुच्छलनेति । विस्फुलिङ्गानामित्यादिः । सहोत्पत्तिरिति । शतृप्रत्ययेनेति भावः । 'शत्रा समुच्छलन' इति पाठे तु ततः प्रागत्रेति शेषः । वस्तुतः