पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

रसगङ्गाधरः। निगीर्णे विषये । इति रूपकादस्या विशेषः । अध्यवसायस्य सिद्धत्वेनाप्राधान्यान्निश्चयात्मकत्वाच्च साध्याध्यवसानायाः संभावनात्मकोत्प्रेक्षाया वैलक्षण्यम्' इत्याहुः । कथं तर्हि 'कमलमिदमनम्बुजातं जयतितमां कनकलतिकायाम्' इत्यादाविदंत्वादेर्विषयतावच्छेदकस्योल्लेखान्निगरणमिति चेत्, न । इदमित्यस्य कमलत्वविशिष्टे विशेषणत्व एवातिशयोक्तिः, उद्देश्यतावच्छेदकत्वे तु रूपकमेव । एवं 'गौरयम्,' 'आयुरेवेदम्' इत्यादावपि बोध्यम् । अत एवातिशयोक्तावभेदोऽनुवाद्य एव न विधेय इति प्राचामुक्तिः संगच्छते । एवमेकः प्रकारोऽतिशयस्य यत्र भेदेऽप्यभेदः । अथ प्रकारान्तरम्-यत्राभेदेऽपि भेदो लोकोत्तरत्वप्रतिपत्त्यर्थः । इदमेव प्रस्तुतस्यान्यत्वमित्यनेनोक्तम् । उदाहरणम्- 'अन्या जगद्धितमयी वचसः प्रवृत्ति- रन्यैव कापि रचना वचनावलीनाम् । लोकोत्तरा च कृतिराकृतिरार्तहृद्या विद्यावतां सकलमेव चरित्रमन्यत् ॥ एवमन्यः प्रकारः-यत्रासंबन्धेऽपि संबन्धो वर्ण्योत्कर्षार्थः । यथा- 'धीरध्वनिभिरलं ते नीरद मे मासिको गर्भः । उन्मदवारणबुद्धया मध्येजठरं समुच्छलति ॥' अत्र सिंहीवचने समुच्छलनासंबन्धेऽपि समुच्छलनसंबन्धोक्तिः शौर्यातिशायिका। र्मवैशिष्टयमपि लक्ष्यस्यारोपितमेवेति बोध्यम् । अस्या विशेष इति । आहार्यत्वानाहार्यत्वकृतो विशेष इत्यर्थः । उत्प्रेक्षातोऽत्र वैलक्षण्यमाह-अध्यवेति । इदमिति । यत इत्यादि । अत एव सर्वथा विषयानुपादानेऽस्या अङ्गीकारादेव । एवमिति । उक्तप्रकारेणेत्यर्थः । निरूपित इति शेषः । इदमेव प्रकारान्तरमेव । उक्तमिति । प्रकाशकृतेति शेषः। अन्या जगदिति । विद्वद्वर्णनमिदम् । कृतिश्चेष्टा । आर्तह्नद्या । आकृतिः शरीरावयवसंस्था चलोकोत्तरेत्यर्थः। चरित्रं व्यवहारः। मध्येजठरमिति। 'पारे मध्ये-