पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

३१० काव्यमाला। यथा-'स्मृतापि तरुणातपम्' । यथा वा- 'जगज्जालं ज्योत्स्नामयनवसुधाभिर्जटिलयञ्जनानां संतापं त्रिविधमपि सद्यः प्रशमयन् । श्रितो वृन्दारण्यं नतनिखिलवृन्दारकनुतो मम स्वान्तध्वान्तं तिरयतु नवीनो जलधरः ॥' अत्र विषयधर्मविशिष्टतया कल्पितेन लोकोत्तरजलधरत्वेन रूपेण भगवतः प्रतिपादने तत्समानाधिकरणत्वेन कल्पितानां विशेषणानामानुगुण्यम् । एवं च निगरणे सर्वत्रापि विषयितावच्छेदकधर्मरूपेणैव विषयस्य भानम्, न विषय्यभिन्नत्वेनेति स्थिते "रूपकातिशयोक्तिः स्यान्निगीर्याध्यवसानतः' इत्युक्त्वा 'अत्रातिशयोक्तौ रूपकविशेषणं रूपके दर्शितानां विधानामिहापि संभवोऽस्तीत्यतिदेशेन प्रदर्शनार्थम् । तेनात्राप्यभेदा- तिशयोक्तिस्ताद्रूप्यातिशयोक्तिरिति कुवलयानन्दे यदुक्तं तन्निरस्तम्" इति नव्याः । प्राञ्चस्तु 'रूपक इवात्रापि विषय्यभेदो भासते । परं तु विरोधाभावादनाहार्यैव विषयितावच्छेदकप्रकारधीरूपकलक्षणे चाहार्यत्वं न देयम् । अतिशयोक्तिरनाहार्यैव । रूपके त्वाहार्या अनाहार्या च धीः' इत्याहुः । अन्ये तु 'प्रस्तुतस्य यदन्यत्वमित्यतिशयोक्तिरेषु प्रकृतस्य विविक्ताकारवस्त्वन्तरत्वेनान्यवस्तुत्वेन वाध्य- वसानमिति तदर्थः । अस्ति हि प्रकृतस्य मुखस्य चन्द्रत्वेनाध्यवसानम् । आहार्यत्वाभावाच्च न रूपकम्' इत्याहुः । विषयधर्मेति । लोकोत्तरत्वेत्यर्थः । सामानाधिकरण्यसंबन्धेन तद्वैशिष्टयं बोध्यम् । एवं चेत्यस्य निरस्तमित्यत्रान्वयः । विधानां प्रकाराणाम् । अतिदेशेनेति । अन्यत्रान्यशब्दप्रयोग इति न्यायादिति भावः । अत्रापि अतिशयोक्तावपि । तन्निरस्तमिति । अत्रेदं चिन्त्यम्-काव्यप्रकाशादिरीत्या तदुक्तम् । निर्बाधकत्वात् । किं च त्वयाप्यभेदाप्रधानातिशयोक्तिरिति प्राचीनव्यवहारसंगमनाय विषयितावच्छेदकमेवाभेद इत्यवश्यं वक्तव्यम् । एवं च तथैवाभेदातिशयोक्तिरिति व्यवहारो मयापि सूपपादः । 'कोऽयं गलितहरिण:-' इत्यादौ प्रसिद्धविषयितावच्छेदकप्रकारकबोधस्य बाधबुद्धिपराहतत्वात्कोऽयमित्यनेन निरस्तत्वाच्चावश्यं चन्द्रकार्यकारित्वप्रकारकबोधोऽङ्गीकार्यः । एषैव च ताद्रूप्यातिशयोक्तिः । अत्रापि विषयितावच्छेदकप्रकारकधीहारार्यैव । तद्धर्मविशिष्टे शक्यसंबन्धग्रहोऽपि तथैव । तद्ध-