पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

रसगङ्गाधरः। ३०९ थ्यादिना, तृतीयेऽपि लताभिर्गोपीनां निगरणम् । तस्मिन्नेवानुग्राहकतया। एवं च सावयवेयमतिशयोक्तिः । यत्र चानुग्राहकं न निगरणान्तरं किं तु शुद्धं साधारणधर्मादि सा निरवयवा । यथा- 'नयनानन्दसंदोहतुन्दिलीकरणक्षमा । तिरयत्वाशु संतापं कापि कादम्बिनी मम ॥' अत्र भगवतो मूर्तिर्निगीर्णा । नामार्थयोरभेदसंसर्गेण विशेष्यविशेषणभावस्य व्युत्पन्नतया रूपके तावदुचितो विषयविषयिणोस्तेन संसर्गेण विशेष्यविशेषणभावः । न तु प्रकृते । विषयितावच्छेदकरूपेण विषयस्यैव भानादभेदसंसर्गस्याप्रसक्तेः । अभेदप्रधानातिशयोक्तिरिति प्रवादस्तु प्रागुक्ते संसर्गारोपरूपक इव विषयितावच्छेदकस्यैव भेदाभावरूपतया निर्वाह्यः । तच्च विषयितावच्छेदकं क्वचित्प्रकृते निगरणदार्ढ्याय विषयमात्रवृत्तिधर्मस्वसमानाधिकरणधर्मशून्यत्वाभ्यां प्रसिद्धम् । यथा 'कलिन्दगिरिनन्दिनी' इत्यादौ तमालत्वादि । क्वचिदप्रसिद्धमपि कल्पितोपमादावुपमानमिव कविना स्वप्रतिभया कल्पितम् । धर्मिण इव धर्मस्यापि कल्पनाया अविरुद्धत्वात् । हीनोत्तमयोनिजन्मेत्यर्थः । तस्मिन्नेवानुग्राहकतयेति । भगवतो निगरणे । तदा वैल्लनकर्मत्वतद्धरणकर्तृत्वस्वरूपे साधारणधर्मौ । साधारणत्वसंपादनमेवानुग्राहकत्वमिति भावः । यत्र च यत्र तु । रूपकतो भेदान्तरमाह-नामार्थेति । एवेन 'विषयिव्यावृत्तिः । विषयीति । तमालत्वादेरित्यर्थः । भेदाभावरूपतयेति । 'आस्ये पूर्णशशाङ्कता' इत्यादावन्योन्याभावस्य प्रतियोगितावच्छेदकधर्मरूपतायाः सर्वतन्त्रसिद्धत्वादिति भावः । स्वेति । विषयमात्रवृत्तिधर्मेत्यर्थः । धर्मशून्यत्वाभ्यामिति । धर्मद्वयशून्यत्वं च सामानाधिकरण्यसंबन्धावच्छिन्नप्रतियोगिताकम् । 'नवीनो जलधरः' इत्यत्र च भगवद्वृत्तिलोकोत्तरत्त्वतत्समानाधिकरणनवसुधाकरणकव्याप्तिकर्तृत्वे जलधरत्वेन समानाधिकरणेऽसामानाधिकरण्यसंबन्धेन तदुभयविशिष्टजलधरत्वं कविकल्पितम् । क्वचिदप्रसिद्धमपीति । सामानाधिकरण्यसंबन्धेन तादृशधर्मद्वयविशिष्टतया अप्रसिद्धमपीत्यर्थः । अपूर्वश्चन्द्र इत्यादावप्येवम् । मुखमपूर्वश्चन्द्र इत्यादौ कविकल्पितविशिष्टचन्द्रेणाहार्याभेदप्रतीते रूपकम् । केचित्तु 'कविकल्पिततादृशचन्द्रत्वस्य मुखत्वेन