पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला। ३०८ लक्ष्यविशेष्यकबोधत्वं कार्यतावच्छेदकम् । अतः शक्यासाधारणधर्मस्य लक्ष्यासाधारणधर्मस्य च भानाभानयोर्न विरोधः । परे तु मात्रविशेषणं न देयम् । तेन लक्ष्यासाधारणोऽपि धर्मों भासते' इत्याहुः । केचित्तु 'लक्षणया लक्ष्यासाधारणधर्मप्रकारेणैव बोधः । अनन्तरं च व्यापारान्तरेण शक्यतावच्छेदकप्रकारेण लक्ष्यबोधः ।' इत्याहुः । बाधज्ञानस्य च यथा न प्रतिबन्धकत्वं तथोक्तं प्राक् । अत्र चैकपदोपात्तत्वान्नोद्देश्यविधेयभावः । उदाहरणम्- 'कलिन्दगिरिनन्दिनीतटवनान्तरं भासय- न्सदा पथि गतागतक्लमभरं हरन्प्राणिनाम् । स्फुरत्कनककान्तिभिर्नवलताभिरावेल्लितो ममाशु हरतु श्रमानतितमां तमालद्रुमः ॥ अत्र तमालेन भगवतो निगरणे कलिन्दनन्दिनीत्यादीनि त्रीणि चरणत्रयगतानि विशेषणानि तदनुग्रहार्थं विषयविषयिणोः साधारणधर्मतया साक्षादुपात्तानि । चतुर्थमपि चतुर्थचरणगतमवैयाकरणानां दर्शने । वैयाकरणानां तूपात्तया तमालाभिन्नकर्तृकया श्रमहरणक्रिययोन्नीतं तादृशकर्तृत्वं तथा तयोः स्थितम् । द्वितीये चरणे चोच्चावचयोनिसंचरणस्य प- वित्यर्थः । एतावानेव विशेष इति भावः । अनन्तरं च लक्ष्यार्थबोधोत्तरं च । व्यापारेति । व्यञ्जनयेत्यर्थः । एतानि मतानि पूर्वे निरूपितानि । नन बाधज्ञानसत्त्वात्कथं व्यञ्जनया तथा बोधोऽत आह-बाधज्ञानेति । एवं चाहार्यभेदबुद्धिः। बाधकबुद्धिकालिकस्यैवाहार्यत्वादिति भावः। प्राश्चस्तु “कमलमनम्भसि-' इत्यादावाह्लादकत्वादिकं लक्ष्यतावच्छेदकम् । तेन रूपेण प्रथमतो बोधे तद्धर्मावच्छिन्ने कमलाभेदप्रत्ययो व्यञ्जनयानाहार्यः । तद्धर्मावच्छिन्ने कमलाभेदबाधबुद्धेरभावात् । अत एव 'गौणसाध्यवसानायां सर्वथैवाभेदावगमः' इति प्रकाशकृतः । रूपके त्वाहार्य एव । अयमेव रूपकादस्या विशेषः” इत्याहुः । वनान्तरं वनमध्यम् । गतागतेति । गमनागमनक्लेशेत्यर्थः । तदनुग्रहार्थे तेन तन्निगरणानुग्रहार्थम् । दर्शन इति। तदर्थे तयोस्तत्त्वेन साक्षादुपात्तमिति शेषः । तैः प्रथमान्तार्थविशेष्यकबोधाङ्गीकारादिति भावः । वैयाकरणानां त्विति । दर्शन इत्यनुषज्यते । तथा तदर्थे तयोस्तत्त्वेन साक्षात्तथा अनुपात्तम् । उच्चेति ।