पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

रसगङ्गाधरः। 'अङ्कितान्यक्षसंघातैः सरोगाणि सदैव हि । शङ्के पङ्केरुहाणीति शरीराणि शरीरिणाम् ॥' अयमुपात्त एव भवति । अर्थमयोऽनुपात्तश्चापि भवति । यथा 'द्विनेत्र इव वासवः' इत्यादौ जगदीश्वरत्वादिः । न चात्र द्विनेत्रत्वादिरूप उपात्त एव साधारणो धर्मः। साधारण्यार्थमेव तस्य विषयिण्यारोपादिति वाच्यम् । तस्यारोपेण साधारणत्वे कृतेऽपि असुन्दरत्वेनोत्प्रेक्षोत्थापकत्वविरहात् । साधारणीकरणं तु प्रतिबन्धकनिरासार्थमित्युक्तमेव । 'दृष्टिः संभृतमङ्गला बुधमयी देव त्वदीया सभा काव्यस्याश्रयभूतमास्यमरुणाधारोऽधरः सुन्दरः । क्रोधस्तेशनिभूरनल्पधिषण स्वान्तं तु सोमास्पदं राजन्नूनमनूनविक्रम भवान्सर्वग्रहालम्बनम् ॥' अत्रोत्प्रेक्ष्यमाणस्य सर्वग्रहालम्बनस्य धर्मेषु तत्तद्ग्रहाश्रिताङ्गकत्वेषु विशेषणीभूतैस्तत्तद्ग्रहैर्विषयस्य राज्ञो धर्मेषु कल्याणाश्रयत्वादिषु विशेषणानां कल्याणादीनां क्ष्लेषेण तादात्म्यसंपादनद्वारा तादृशधर्माणां साधारणतासंपत्तिः । यथा वा- 'विभाति यस्यां ललितालकायां मनोहरा वैश्रवणस्य लक्ष्मीः । कपोलपालिं तव तन्वि मन्ये नरेन्द्रकन्ये दिशमुत्तराख्याम् ॥' इहापि विषयविषयिधर्मविशेषयोरलकालकयोः श्रवणवैश्रवणयोश्च क्ष्लेषेणाभेदे धर्मस्य साधारण्यम् । षज्यते । अयं केवलशब्दात्मा । अयमिति । प्रागुक्तोऽर्थमय इत्यर्थः । नन्वेवं तस्य साधारणत्वकरणं व्यर्थमत आह-साधारणीति । निरासार्थमिति । इवशब्दस्य संभावनार्थकत्वाय चेत्यपि बोध्यम् । क्ष्लेषोदाहरणमाह-दृष्टिरिति । राजानं प्रति कव्युक्तिः । मङ्गलपदेन भूमिजः शुभं च । बुधः पण्डितः सौम्यश्च। काव्यं पद्यं शुक्रश्च। अरुणः सूर्य आरुण्यं च । शनिरशनिश्च । धिषणो गुरुर्धिषणा बुद्धिश्च । सोमास्पदमिति । उमया सहितः सोमश्चन्द्रश्च। यद्वा 'चन्द्रमा मनसो जातः' इति श्रुतेर्जनकतासंबन्धेन मनसि सोमास्पदत्वमुत्प्रेक्ष्यते । तेन चेश्वरत्वमपि व्यङ्गयमित्याहुः । पूर्वमुपात्तोदाहरणं पश्चादनुपात्तोदाहरणमित्यत्र विशेषः । उत्प्रेक्षेति । विषयिण इति शेषः । कल्याणेति । कल्याणाश्रिताङ्गकत्वादिष्वित्यर्थः । श्लेषस्यैवोदाहरणान्तरमाह-यथा