पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

३०६ काव्यमाला। यथा वा- 'नासत्ययोगो वचनेषु कीर्तौ तथार्जुनः कर्मणि चापि धर्मः । चित्ते जगत्प्राणभवो यदास्ते वशंवदास्ते किमु पाण्डुपुत्राः॥' अत्र पाण्डुपुत्रेषु विषयेषु राजवशंवदतादात्म्योत्प्रेक्षायां राजाश्रितत्वरूपो विषयिधर्मः श्लेषेण विषयाणां तदाश्रितानां चासत्याभावशुक्लगुण- पुण्यपरमेश्वराणामभेदसंपादनद्वारा विषयसाधारणीकृतः। 'स्तनान्तर्गतमाणिक्यवपुर्बहिरुपागतम् । मनोऽनुरागि ते तन्वि मन्ये वल्लभमीक्षते ॥' अत्र वल्लभेक्षणस्य मनस्युत्प्रेक्षायां तन्निमित्तमन्तःप्रदेशाद्बहिरागमनमपेक्ष्यम् । तच्च बहिःप्रदेशसंबन्धरूपं माणिक्यमात्रतृत्ति मनसो न संभवतीति माणिक्यापहुत्या मनोगतं क्रियते । बिम्बप्रतिबिम्बभावस्तु 'कलिन्दजानीरभरेऽर्धमग्ना' इत्यत्रैव निरूपितः । 'माधुर्यपरमसीमा सारस्वतजलधिमथनसंभूता । पिबतामनल्पसुखदा वसुधायां ननु सुधा कविता ॥' अत्र कवितायां माधुर्यपानयोर्मुख्ययोरसंभवादास्वादश्रवणयोरमुख्य- योरुपचारेण मुख्याभ्यां साधारणीकरणम् । लक्षणया शक्याभेदेन लक्ष्यबोधनात् । वेति । अलकः अलका च । श्रवणः कर्णः वैश्रवणः कुबेरश्च । राजकन्यां प्रति कव्युक्तिरियम् । प्राग्वदाह-यथा वेति । राजानं प्रत्युक्तिरियम् । नासत्यौ नकुलसहदेवौ असत्याभावश्च । अर्जुनः किरीटी श्वैत्यं च । धर्मो युधिष्ठिरो विध्यर्थश्च । जगदिति । वायुपुत्रो भीमो हनूमांश्च । यद्वा पञ्चम्यर्थबहुव्रीहिणा वायुजनकः परमेश्वरः। राजवशंवदेति । विषयिणो वर्णनीयराजवशंवदा ये राजानस्तत्तादात्म्येत्यर्थः । विषयाणां पाण्डुपुत्राणाम् । तदाश्रितानां चेति । राजाश्रितानां चेत्यर्थः । विषयेति । पाण्डुपुत्रेत्यर्थः । अपह्नवोदाहरणमाह-स्तनेति । स्तनमध्यगतमाणिक्यस्वरूपेण बहिरागतमित्यर्थः । नायिकां प्रति सख्युक्तिः। बिम्बप्रतिबिम्बोदाहरणमाह-बिम्बेति । उपचारोदाहरणमाह-माधुर्येति । राजानं प्रत्युक्तिः । या माधुर्यस्य परमसीमाधारभूता सारस्वतरूपसमुद्रमथनजा भुवि तां बहुसुखदां सुधारूपकवितां ननु निश्चयेन पिबेत्यर्थः । उपचारेण लक्षणया । मुख्याभ्यामिति । सहाभेदसंपादनद्वारा तयोर्धर्मयोरिति शेषः । ननूपचारेऽमुख्यस्यैव प्रतीत्या मुख्याप्रतीत्या दोषस्तदवस्थ एवात आह- लक्षणयेति । मात्रपदेन पौनरुक्त्यं परिहृतम् । पूर्वे रूपकमिश्र उक्त इति भावः ।