पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। २९७ याश्च साध्यवसानत्वाविषयस्यानुपादानं संगच्छते । निमित्तधर्मश्च तत्तदङ्गासक्तवृत्तित्वम् । एवम् 'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नमः' इत्यादौ कस्यापि पद्ये न प्रथमान्तार्थे कर्तरि लेपनकर्तृत्वादेरुत्प्रेक्षणम्, तस्याख्यातार्थविशेषणत्वेनैकदेशत्वात् । नापि लेपनादिकर्तुरभेदेन, तस्य क्रियाविशेषणत्वेनाप्राधान्यात् । किं तु तमःकर्तृकमङ्गकर्मकं लेपनमुत्प्रेक्ष्यते । तमःकर्तृकमञ्जनकर्मकं वर्षणं च । उत्प्रेक्ष्यमाणाभ्यां च ताभ्यां विषयस्य तमःकर्तृकव्यापनस्य निगीर्णत्वादनुपादानम् । अत एव एवमादावियमनुपात्तविषयोच्यते । निमित्तधर्मश्च श्यामीकारकत्वादिरनुपात्त एव । अत एव 'संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत्' इति लक्षणं विधायोक्तम् 'व्यापनादिलेपनादिरूपतया संभावितम्' इति मम्मटभट्टैः । एवम् 'उन्मेषं यो मम न सहते जातिवैरी निशाया- मिन्दोरिन्दीवरदलशा तस्य सौन्दर्यदर्पः । नीतः शान्तिं प्रसभमनया वक्रकान्त्येति हर्षा- ल्लग्ना मन्ये ललिततनु ते पादयोः पद्मलक्ष्मीः ॥' इत्यादौ प्राचीनपद्ये हेतुत्प्रेक्षायामपि न हर्षरूपं हेतुमात्रमुत्प्रेक्ष्यते लक्ष्मीरूपे विषये । किं तु तद्धेतुकं कार्य लगनादिरूपं विषयितादात्म्येन यामप्युपपादयति-एवमिति । कस्यापि पद्ये इत्यनेन स्वीयत्वं निरस्तम् । वैयाककरणरीत्या आह-तस्येति । प्रथमान्तार्थकर्तुरित्यर्थः । तथा च पदार्थः पदार्थेनेति न्यायप्रसिद्धकर्तृत्वादि तु क्रियारूपतया प्रधानमेवेति भावः । एवमग्रेऽपि । अभेदेनेति । प्रथमान्तार्थे उत्प्रेक्षणमित्यस्यानुषङ्गः । तस्येति । लेपनादिकर्तुरित्यर्थः । वर्षणं चेत्यस्य उत्प्रेक्ष्यत इति शेषः। ननु कुत्र सा अत आह-उत्प्रेक्ष्येति । अत एव निगीर्णत्वादनुपादानादेव । एवमादौ इत्यायुदाहरणे । अत्र संमतिं प्रकाशकृत आह- अत एवेति । एवमिति । उन्मेषमिति । विकसनमित्यर्थः । नायिकां प्रति नायकोक्तिः । यश्चन्द्रः । मम पद्मस्य । हेतूत्प्रेक्षायामपि तत्त्वेनाभिमतायामपि । इदं च १. शूद्रकप्रणीतमृच्छकटिकस्य प्रथमेऽङ्के पद्यमेतत्. 'असत्पुरुषसेवेव : दृष्टिविफलतां गता' इत्यस्योत्तरार्धम्.