पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२९ काव्यमाला। साहजिकलगनादौ विषये । कार्यस्य निमित्ततावादिनापि विषयगततत्स- मानजातीयेनाभेदाध्यवसानस्यावश्यवाच्यत्वादन्यथाहेतुरूपविषयिधर्मसमानाधिकरणधर्मस्य कार्यरूपस्य विषयावृत्तित्वादुत्प्रेक्षैव न स्यात् । एवम् 'चोलस्य यद्भितिपलायितस्य भालत्वचं कण्टकिनो वनान्ताः । अद्यापि किं वानुभविष्यतीति व्यपाटयन्द्रष्टुमिवाक्षराणि ॥' इत्यादि परपद्ये फलोत्प्रेक्षायां कण्टकिषु वनान्तेषु विषयेषु न केवलं भालत्वग्विपाटननिमित्तकं ललाटाक्षरदर्शनं फलमुत्प्रेक्ष्यते । किं तु तत्फलकं भालत्वग्विपाटनादिरूपं विषयिकण्टकजविपाटनादौ विषये तादात्म्येनेति सर्वत्राभेदेनैव विषये विषयिण उत्प्रेक्षणमिति दर्शनम् । तत्र विचार्यते-न सर्वत्राभेदेनैवोत्प्रेक्षणमिति नियमे किंचिदस्ति प्रमाणम् । लक्ष्येषु भेदेनाप्युत्प्रेक्षणस्य दर्शनात् । 'अस्यां मुनीनामपि मोहमूहे' इत्यादौ । न च मुनिसंबन्धिनि धर्मविशेषे मोहस्याभेदेनोत्प्रेक्षणमिति वाच्यम् । भेदेनोत्प्रेक्षणे बाधकाभावेनेदृशकल्पनाया निरर्थकत्वात् । नह्यभेदेनैवोत्प्रेक्षणमिति वेदेन बोधितम् । यदर्थमयमाग्रहः स्यात् । लक्षणनिर्माणस्य पुरुषाधीनत्वात् । 'लिम्पतीव तमोऽङ्गानि' इत्यत्रापि लेपनादिकर्तृत्वं तमआदिषु विषयेषूत्प्रेक्ष्यत इत्येव युक्तम् । अनुकूलव्यापारात्म- तादात्म्यं परमतेऽप्यावश्यकमित्याह-कार्यस्येति । लक्ष्मीरूपविषये हर्षरूपहेतुमात्रोत्प्रेक्षायां कार्यमेव निमित्तं वाच्यम् । तस्य तत्त्वसिद्धिरुभयसाधारण्यं विनानुपपन्नेत्यभेदाध्यवसानमावश्यकमिति भावः । समानजातीयेन साहजिकलगनेन । तदेव व्यतिरेकमुखेनोपपादयति-अन्यथेति । हेतुरूपेति । हर्षरूपेत्यादिः । धर्मस्य कार्यरूपस्येति । वास्तवहर्षाधिकरणचेतनवृत्तितत्कार्यस्य लगनादेः पद्मलक्ष्म्यावृत्तेरिति भावः । फलोत्प्रेक्षायां तत्त्वमाह-एवमिति । चोलस्येति.। चोलनृपत्येत्यर्थः । वनान्ता वनप्रदेशाः । अनुभविष्यतीति पलायितश्चेत्स इति भावः । अक्षराणि भालस्थानि । फलोत्प्रेक्षायां तत्त्वेनाभिमतायाम् । विपाटनेति । तस्य तत्कर्तृकत्वादिति भावः । दर्शनात्स्वरसतया प्रतीतेः। प्रागुक्तं तदीयप्रकारं खण्डयति-न चेति । ननु लक्षणानुरोधेन तथोच्यतेऽत आह-लक्षणेति । नन्वेवमपि लिम्पतीवेत्यादौ नान्यथा निर्वाह इति प्रागुक्तमत आह-लिम्पतीवेति । फलमात्रस्य धात्वर्थत्वादाह--अनुकूलव्यापारेति । यत इत्यादिः । अन्यथा कृतीत्येवोक्तं स्यात् । एवेन धर्मिव्यवच्छेदः ।