पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२९६ काव्यमाला। धर्मस्वरूपोत्प्रेक्षा यथा- 'निधिं लावण्यानां तव खलु मुखं निर्मितवतो महामोहं मन्ये सरसिरुहसूनोरुपचितम् । उपेक्ष्य त्वां यस्माहिधुमयमकस्मादिह कृती कलाहीनं दीनं विकल इव राजानमतनोत् ॥ १॥ पूर्वार्धोत्प्रेक्षितमोहरूपधर्मसिद्धये द्वितीयार्धेऽविचार्यकारित्वं तत्सामानाधिकरण्येनोपात्तम् । अस्यां च स्वरूपस्य विषयित्वे निमित्तभूतो धर्म उपमायामिव बिम्बप्रतिबिम्बभावादिभिर्भिन्न उपात्तोऽनुपात्तश्च । हेतुफलयोर्विषयित्वे तु यं प्रति हेतुफले निरूपिते स धर्मः कल्प्यमानोऽपि विषयगतसाहजिकधर्माभिन्नतयाध्यवसीयमानो निमित्तं संपद्यते । स चोपात्त एव भवति । अन्यथा के प्रति हेतुफलयोरन्वयः स्यादिति संक्षेपः । अत्र च प्राचामर्वाचा चानेकधा दर्शनं व्यवस्थितम् । तत्र प्राचामित्थम्-सर्वत्राभेदेनैव विषयिणो विषये उत्प्रेक्षणं न संबन्धान्तरेण । तथा हि धर्मिस्वरूपोत्प्रेक्षायाम् 'मुखं चन्द्रं मन्ये' इत्यादौ तावद्विषयिणश्चन्द्रस्याभेदो विषये मुखे स्फुट एव । नामार्थयोर्भेदेन साक्षादन्वयस्याव्युत्पत्तेः । उपात्तविषया चेयम् । एवम् 'अस्यां मुनीनामपि मोहमूहे' इत्यत्र नैषधपद्ये (७ । ९४) धर्मस्वरूंपोत्प्रेक्षायामपि मुनिसंबन्धिनि धर्मान्तरे विषये दमयन्तीविषयकमोहस्य विषयिणो भेदेनैवोत्प्रेक्षा । उत्प्रेक्षा- त्प्रेक्षामुक्त्वा धर्मस्वरूपोत्प्रेक्षामाह-धर्मेति । सरसिरुहसूनोर्ब्रह्मणः । इह जगति । कलाहीनं क्षीणकलम् । विकल इवेत्यंशे उपमा । पूर्वार्धोत्प्रेक्षितेति । ब्रह्मरूपे धर्मिणीति भावः । उपात्तमिति । अकस्मादित्यनेनेति भावः । निमित्तांशे प्रागनुक्तं विशेषमाह-अस्यां चेति । उत्प्रेक्षात्वावच्छिन्नायामित्यर्थः । स्वरूपस्य धर्मिस्वरूपस्य धर्मस्वरूपस्य वा । भावादिभिरिति । आदिना अनुगामित्वादिपरिग्रहः । एवं च चतुर्विध इत्यर्थः । तदाह-भिन्न इति । अपिः स्वाभाविकसमुच्चायकः । अत्र च उत्प्रेक्षाविषये । अर्वाचामाधुनिकानाम् । दर्शनं मतम् । तत्र तयोर्मध्ये । विषय इति । एतौ च धर्मस्वरूपौ धर्मिस्वरूपौ वेति भावः। तावदादौ । अस्यां दमयन्त्याम् । धर्मस्वरूपोत्प्रेक्षायामपि धर्मान्तरे दर्शनादिरूपे । नन्वेवं कथं विषयस्यानुपादानमत आह-उत्प्रेक्षेति । एवं धर्मिस्वरूपोत्प्रेक्षायां तत्त्वमुक्त्वा धर्मस्वरूपोत्प्रेक्षा-