पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। २९५ अथ फलोत्प्रेक्षा- 'दिवानिशं वारिणि कण्ठदने दिवाकराराधनमाचरन्ती । वक्षोजतायै किमु पक्ष्मलाश्यास्तपश्चरत्यम्बुजपङ्क्तिरेषा ॥' अत्र वक्षोजत्वमवयववृत्ति । जातिस्तल्प्रत्ययार्थः । त्वतलोः प्रकृतिप्रवृत्तिनिमित्ते भावे विधानात् । स एव चात्र तपश्चरणक्रियायाः साहजिकजलावस्थानाभिन्नतयाध्यवसितायाः फलत्वेनोत्प्रेक्ष्यते । न चात्र प्राप्तिक्रियामन्तरेण जातेः शुद्धाया अफलत्वात्क्रियाया एव फलत्वमिति वाच्यम् । प्राप्तेः संसर्गतया तहारैव जात्यादेः फलत्वोपपत्तेः । अन्यथा फलत्वबोधकचतुर्थ्या अनुपपत्तेः । अत एव–'ब्राह्मण्याय तपस्तेपे विश्वामित्रः सुदारुणम्' इत्यादयः प्रयोगाः। गुणफलोत्प्रेक्षा यथा- 'हालाहलकालानलकाकोदरसंगतिं करोति विधुः । अभ्यसितुमिव तदीयां विद्यामद्यापि हरशिरसि [गतः ॥' अत्र विरहिवाक्येऽभ्यसनक्रियायास्तुमुना फलत्वं लभ्यते । एवं लक्ष्यानुसारेण यथासंभवमन्यदप्युदाहार्यम् । इह जात्यादयो हि भेदाः प्राचामनुरोधादुदाहृताः । वस्तुतस्तु नैषां चमत्कारे वैलक्षण्यमस्तीत्यनुदाहार्यतैव । चमत्कारवैलक्षण्यं पुनर्हेतुफलस्वरूपात्मकानां त्रयाणां प्रकाराणामेवेति । प्रागुदाहृतेष्वेव पद्येषु वाचकानामिवादीनां त्यागे प्रतीयमाना । अर्थसामर्थ्यावसेयत्वात् । न तु व्यङ्गयेति भ्रमितव्यम् । तस्याः प्रकृते प्रसङ्गाभावात् । दिगिति । उपदर्शितेति शेषः । अथ क्रमप्राप्तां फलोत्प्रेक्षामाह-अथेति । तत्रादौ जातिफलोत्प्रेक्षामाह-दिवेति । कण्ठदघ्ने कण्ठप्रमाणे । अवयवेति । स्तनेत्यर्थः । स एवेति । जातिरूपतलर्थ एवेत्यर्थः । अफलत्वादिति । तस्यानित्यत्वादिति भावः । क्रियायाः प्राप्तेः । संसर्गतयेति । तथा च लक्षणा नेति भावः । अन्यथा यथाकथंचित्फलत्वानङ्गीकारे । उक्तार्थ द्रढयति-अत एवेति । (वियोगेति ।) अत्र सुखरूपगुणस्य फलत्वेनोत्प्रेक्षणं स्पष्टमेव । हालेति । विषभालनेत्रसर्पाणां संगतिमित्यर्थः । तदीयां विषादीयाम् । प्राचामलंकारसर्वस्वकारादीनाम् । मेवेत्यस्य बोध्यमि- ति शेषः । एवं वाच्याप्रपञ्चमुक्त्वा प्रतीयमानामाह-प्रागिति । एवं धर्मिस्वरूपो-