पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। २८५ त्किचिवस्तुनिषेधसामानाधिकरण्येन क्रियमाणवस्त्वन्तरारोपत्वमेव । तस्मा- त्सर्वमेवेदमहृदयंगमं सहृदयानाम् । इति रसगङ्गाधरेऽपह्नुतिप्रकरणम् । अथोत्प्रेक्षाप्रकरणम्- तद्भिन्नत्वेन तदभाववत्त्वेन वा प्रमितस्य पदार्थस्य रमणीयतद्वृत्तितत्समानाधिकरणान्यतरतद्धर्मसंबन्धनिमित्तकं तत्त्वेन तद्वत्त्वेन वा संभावनमुत्प्रेक्षा। 'लोकोत्तरप्रभाव त्वां मन्ये नारायणं परम्' इत्यत्र तादृशप्रभावस्य नारायणत्वव्याप्यतासंभावनादशायां सामर्ग्यभावेनानुमित्यनुदयाज्जायमानायां नारायणेनानेन प्रायशो भवितव्यमिति संभावनायामतिप्रसङ्गवा- रणाय तद्भिन्नत्वेन प्रमितस्येति संभावनायामाहार्यतां गमयति । एतेन 'रामं स्निग्धतरश्यामं विलोक्य वनमण्डले । प्रायो धाराधरोऽयं स्यादिति नृत्यन्ति केकिनः ॥' इत्यत्र संभावनायाम, 'धाराधरधिया धीरं नृत्यन्ति स्म शिखावलाः' इत्यत्र भ्रान्तौ च नातिप्रसङ्गः। त्वंसूचितम् अतः स्वसिद्धान्तरीत्योपसंहरति-तस्मादिति। दीक्षितोक्ते यथाकथंचित्तत्समर्थः चेत्यर्थः। जहृदयंगममिति । अत्रेदं चिन्त्यम् -दीक्षितैर्हि "दण्डी त्वपहृतेः साधर्म्यमूलत्वनियम मनादृत्य 'अपह्नुतिरपहृत्य किंचिदन्यार्थसूचनम्' इति लक्षयित्वा उदाजहार-'न पञ्चे! . स्मरस्तस्य सहस्रं पत्रिणां यतः । चन्दनं चन्द्रिका मन्दो गन्धवा- हश्च दक्षिणः ॥' इत्याद्युपक्रम्य 'त्वदालेख्ये' इत्याद्युक्तमिति । तदनुसारेणैव तत्रापह्नुतिध्वनिरुदाहृत इति न किंचिदहृदयंगमम् । प्रकाशविरोधोऽपि न । तत्रोपमेयपदस्य पदार्थोपलक्षणत्वात् : अन्यथा 'केसेसु बलामोडिअ' इत्यत्र 'स्वयं न प्रपलाय्य गतास्तद्वैरिणोऽपि तु संभवं संभाव्य तान् कंदरा न त्यजन्तीत्यपह्रुर्तिव्य॑ज्यते” इति प्रकाश- ग्रन्थासंगतिः - गोध्यम् ॥ इति रसगङ्गाधरमर्मप्रकाशेऽपह्नुतिप्रकरणम् ॥ उत्प्रेक्षां लक्षयति-अथोत्प्रेक्षेति । विनिगमनाविरहादन्योन्याभावात्यन्ताभावघटितं लक्षणद्वयं युगपदाह-तद्भिन्नत्वेनेति । लोकोत्तरेति । राजानं प्रत्युक्तिः । तादृशेति । लोकोत्तरेत्यर्थः । सामग्रीनिश्चयरूपव्याप्तिनादि( ? )रूपानुमितिसामग्रीत्यर्थः । ननु कथमेता[सां] वारणमत आह-संभावनेति । इदं चेत्यादि । संभावनायां लक्षणघटकीभूतायाम् । तथा चोक्तसंभावनानाहार्येति नातिप्रसङ्ग इति भावः । अस्य फलान्तरमाह-एतेनेति । धाराधरो मेघः । भ्रान्तिरपीयमनाहार्या । अन्यथा