पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२८६ काव्यमाला। 'वदनकमलेन बाले स्मितसुषमालेशमावहसि यदा। जगदिह तदैव जाने दशार्धबाणेन विजितमिति ॥' अत्र जगज्जयसंभावनायामतिप्रसङ्गवारणाय रमणीयतद्धर्मनिमित्तकमिति । स्मितस्य संभावनोत्थापकत्वेऽपि जगद्विजितरूपविषयविषयिसाधारणत्वाभावान्न दोषः । एतेन 'प्रायः पतेद्दयौः शकलीभवेद् ग्लौः सहाचलैरम्बुधिभिः स्खलेगौः । नूनं ज्वलिष्यन्ति दिशः समस्ता यद्द्रौपदी रोदिति हा हतेति ।।' अत्रापि रोदनकारणीभूतकेशग्रहणादिजन्यपापनिमित्तोत्थापितायां खर्गपतनसंभावनायां नातिप्रसङ्गः । प्रायः स्थाणुनानेन भवितव्यम्, नूनं पुरुषेणानेन भाव्यम्, दूरस्थोऽयं देवदत्त इवाभाति, इत्यादौ निश्चलत्व-चञ्चलत्वादिसाधारणधर्मनिमित्तायां संभावनायामतिप्रसङ्गः स्यात्, अतो रमणीयत्वं धर्मगतमुपात्तम् । रूपकवित्तावतिप्रसङ्गवारणाय संभावनामिति । अत्र च तादात्म्येन संसर्गेण धर्म्युत्प्रेक्षायाः, संसर्गान्तरेण धर्मोत्प्रेक्षायाश्च संग्रहायैकोक्त्या लक्षणद्वयं विवक्षितम् । सा चोत्प्रेक्षा द्विविधा-वाच्या, प्रतीयमाना च । इव, नूनम्, मन्ये, जाने, अवैमि, उहे, तर्कयामि, शङ्के, उत्प्रेक्षे, इत्यादिभिः क्यङाचारक्विबादिभिः प्रतिपादकैः सहिता यत्रोत्प्रेक्षासामग्री, तत्र वाच्योत्प्रेक्षा। यत्र च प्रतिपादकशब्दरहितं तत्सामग्रीमात्रम्, तत्र प्रतीयमाना । यत्र तत्सामग्रीरहितं प्रतिपादकमात्रम्, तत्र संभावनामात्रमेव नोत्प्रेक्षा । कार्याभावापत्तेः । स्मितेति । हास्यशोभालेशमित्यर्थः । तदेति पूर्वान्वयि । दशेति । पञ्चबाणेन मदनेनेत्यर्थः । जगज्जयेति । जगति जयसंभावनायामित्यर्थः । तद्धर्मेति । तद्धर्मसंबन्धीत्यर्थः । ननु स्मितरूपधर्मनिमित्तकत्वमस्त्येवात आह-स्मितेति । हा- स्यस्य तत्सहकारित्वादिति भावः । जगदिति । जगद्विजितरूपौ यो विषयविषयिणौ तनिष्ठत्वाभावादित्यर्थः । अस्य प्रत्युदाहरणान्तरमाह-एतारकाष्ठा ग्लौश्चन्द्रः । गौः पृथ्वी । भूतत्वं केशग्रहणादिविशेषणम् । पापस्य द्यौः पतदित्यादि विषयविषयिसाधारणत्वाभावादिति भावः । स्थाणुना वृक्षेण । यथाक्रमेण धर्मानाह-निश्चलेति । आदिना विलक्षणाकारत्वपरिग्रहः । रमणीयत्वमिति । तत्त्वं च कविप्रतिभानिर्वतितत्वमिति भावः । ननु ज्ञानमित्येवास्तु अत आह-रूपकेति । नन्वेवमपि तदभाववत्वेनेत्याद्यधिकमत आह--अत्र चेति । उक्तलक्षणवाक्य इत्यर्थः । अलंकारसर्वस्वरीत्या इमा विभजते--सा चोत्प्रेक्षेति । यत्रोत्प्रेक्षासामग्रीति । सा च रमणीयतद्धर्म-