पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२८४ काव्यमाला। काररूपकमेव भवितुमीष्टे नापहृतिः । यदपि चोच्यते 'नायं पुण्डरीकाक्षः, अपि तु मन्मथः' इत्यादि, तत्र यद्यपि चक्रसुपर्णदूरीकरणेन नायं पुण्डरीक इति निषेधः पुष्पचापध्वजगतमकरयोर्लेखनेन च मन्मथोऽयमित्युपमानारोपश्च व्यङ्गयो भवितुमर्हति । तथापि नासावपङ्ह्रुतिः । 'प्रकृतस्य निषेधेन यदन्यत्वप्रकल्पनम्' इति त्वत्कृतलक्षणस्याप्यत्रासत्त्वात् । अत्र हि निषेध्यस्य भगवतः पुण्डरीकाक्षस्यावर्ण्यत्वेनाप्रकृततया प्रकृतनिषेधाभावात् । नहि पूर्वारोपिततामात्रेण प्रकृतत्वं वक्तुं शक्यम् । प्रकृतपदस्यारोपविषयपरतया निषिध्य विषयमित्यादिना क्त्वाप्रत्ययफलं ब्रुवता भवतैव तत्र स्फुटीकरणात् । काव्यप्रकाशकृतापि 'प्रकृतं यनिषिध्यान्यत्साध्यते सा त्वपहुतिः' इति सूत्रं व्याचक्षाणेन 'उपमेयमसत्यं कृत्वा' इत्यादिना प्रकृतपदस्योपमेयपरतयैव व्याख्यानाच्च । प्राचीनमतासिद्धेयमपह्रुतिर्व्यङ्गयत्वेनास्माभिरिहोच्यत इत्यपि कुशकाशावलम्बनमात्रम् । 'प्रकृतस्य निषेधेन' इत्यादिलक्षणं कुर्वता भवतैव तस्या बहिःकरणात् । एवमप्युक्तपद्ये कोऽलंकारो व्यङ्गय इति चेत्, विच्छित्तिवैलक्षण्येऽतिरिक्तः, अन्यथा त्वपह्रुतिरेवास्तु । लक्षणं तु तदा प्रसक्तय- तीयश्चो व्यङ्गयत्वसमुच्चये । ननु निषेधसामानाधिकरण्येनोपमानतादात्म्यारोपसत्त्वात्कथं तदभावोऽत आह-अत्र हीति । ननु पूर्वमारोपितत्वात्प्रकृत एव सोऽत आह--नहीति । निषिध्य विषयमित्यादिनेति । 'निषिध्य विषयं साम्यादन्यारोप' इति तु क्त्वाप्रत्ययेन लक्षणं नोक्तम् । वक्ष्यमाणोदाहरणे आरोपपूर्वकापह्नवेऽव्याप्तिप्रसङ्गादिति तैरुक्तम् । फलं क्वचिदव्याप्तिरूपमनिष्टं फलम् । तत्र चित्रमीमांसायाम् । अपिसूचितं दोषान्तरमाह-काव्येति । पुण्डरीकाक्षस्तूयमानमिति भावः । प्राचीनेति । प्रागुक्तदण्डिमतेत्यर्थः । इह चित्रमीमांसायाम् । कुशेति । संसारकाष्ठाद्यवलम्बनमेवोचितं न कुशादेरिति यथा तथा सर्वसिद्धसंसारमतावलम्बनमेवोचितं नैकदेशिमतस्येत्यर्थः । तदेवाह-प्रकृतेति । एवः प्रत्यासत्तिबोधकः । अन्यलक्षणबहिर्भावोऽपि बोध्यः । विच्छितिश्चमत्कृतिः । अतिरिक्तोऽपहृत्यन्यो रूपकाख्यः। अन्यथा तु विच्छित्तिविशेषाभावे । ननु प्रागुक्तसर्वमतसिद्धापह्नुतिसामान्यलक्षणानाक्रान्तत्वात्कथं तत्त्वमत आह- लक्षणं त्विति । तदेति । तत्रापह्रुतित्वाङ्गीकर्तृदण्ड्यादिमत इत्यर्थः । प्रसक्तेति । प्रसक्तत्वं च यथाकथंचित् । न तु प्रकृतत्वापेक्षेति भावः। अस्तुतदेत्याभ्यामस्यानभिमत-