पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

रसगङ्गाधरः। २७७ अथोल्लेखस्य ध्वनिः- यथा- 'अनल्पतापाः कृतकोटिपापा गदैकशीर्णा भवदुःखजीर्णाः । विलोक्य गङ्गां विचलत्तरङ्गाममी समस्ताः सुखिनो भवन्ति ॥ अत्र पूर्वार्धोदीरितानां चतुर्णां विलोकनकर्तृणां सुखित्वोक्त्या क्रमेण तापपापरोगभवनाशकत्वप्रकारकाणि ग्रहणान्याक्षिप्यन्ते । अयं च शुद्धस्योल्लेखस्य ध्वनिः । संकीर्णस्य यथा- 'स्मयमानाननां तत्र तां विलोक्य विलासिनीम् । चकोराश्चञ्चरीकाश्च मुदं परतरां ययुः ॥ अत्र ध्वन्यमानया एकैकग्रहणरूपया भ्रान्त्या तदुभयसमुदायात्मा उल्लेखः संकीर्णः । न.चात्र भ्रान्तेरेव चमत्कार इति शक्यापह्नव उल्लेखः । अनेककर्तृकानेकधाग्रहणस्यालंकारान्तरविविक्तविषयस्य चमत्कृतेरिहापि सत्त्वात् । द्वितीयस्योल्लेखस्य ध्वनिर्यथा- 'भासयति व्योमगता जगदखिलं कुमुदिनीर्विकासयति । कीर्तिस्तव धरणिगता सगरसुतायासमफलतां नयते ॥' अत्राधिकरणभेदप्रयुक्तमेकस्यामेव कीर्तौ चन्द्रिकात्वसागरत्वरूपानेकविधत्वं रूपकसंकीर्णे ध्वन्यते । इति रसगङ्गाधर उल्लेखप्रकरणम् । अनल्पेति । बहुतापा इत्यर्थः । गदैकेति । रोगप्रघानेत्यर्थः समासः । प्राग्वत् । विचलदिति । विवलत्' इति पाठान्तरम् । अर्थस्तु तुल्यः । स्मयेति । सख्युक्तिर्नायकोक्तिर्वा । एकैकेति । चन्द्रत्वेन पद्मत्वेन च ग्रहणेत्यर्थः । शक्येति । नैवात्रोल्लेखोऽस्तीत्यर्थः । विषयस्य चमदिति । जन्यत्वे षष्ठयर्थश्चमत्कृतावन्वेति । व्योमेति गतिकर्म । कुमुदिनीतश्चे(?)त्यर्थः । सगरेति । सगरसुतप्रयासमित्यर्थः । सागरकार्यस्य कीर्त्यैव संपादतत्वादिति भावः । रूपकेति। चन्द्रसागररूपकेत्यर्थः ॥ इति रसगङ्गाधरमर्मप्रकाश उल्लेखप्रकरणम् ॥