पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला। गृहं शरणमिच्छतां कुलिशकोटिभिर्निर्मितं त्वमेक इह भूतले बहुविधो विधात्रा कृतः ॥ अत्र कविना यमत्वादिना रूपेण राज्ञो रूपवतः करणाद्रूपकेण वि- पक्षभूपालादीनामेतस्मिन्नायाते यमत्वादिना भ्रान्तिरपि संभवतीति भ्रान्तिमता, विपक्षभूपालादिभिरनेकैर्ग्रहीतृभिर्यमत्वादिभिरनेकैर्धर्भैरुल्लेखनात्लागुक्तोल्लेखप्रकारेण च सह संकीर्णोऽयं सबन्धिषष्ठयन्तभेदप्रयुक्तवर्ण्यानेकविधत्वक उल्लेखः । अत्रेदं बोध्यम्-प्रथमनिरूपितोल्लेखप्रकारे 'यं महाविष्णुरिति वैष्णवाः, शिव इति शैवाः, यज्ञपुरुष इति याज्ञिकाः, स्वभाव इति लोकायतिकाः, ब्रह्मेत्यौपनिषदा वदन्ति सोऽयमादिषूरुषो हरिः' इत्यादौ तत्तद्ग्रहीतृकतत्तत्प्रकारकज्ञानसमुदायस्य चमत्कारजनकतयानुभवसिद्धत्वेनालंकारत्वम् । द्वितीये तु प्रकारे 'यः शिष्टेषु 'सदयो दुष्टेषु करालः' इत्यादौ तत्तद्विषयभेदभिन्नस्य प्रकारसमुदायमात्रस्य तथात्वम् । न तु विद्यमानस्यापि ज्ञानांशस्य चमत्कारित्वेनाननुभवात् । चमत्कारनिबन्धनो ह्यलंकारभाव उपमादीनाम् । अत एवास्माभिः 'विषयाद्यन्यतमानेकत्व- प्रयुक्तमेकस्य वस्तुनोऽनेकप्रकारत्वम्' इति द्वितीय उल्लेखो लक्षितः । एवं च 'लक्षणद्वयान्यतरत्वमुल्लेखसामान्यलक्षणतावच्छेदकम्' इत्याहुः । परे तु 'प्रकारद्वयेऽपि वर्ण्यवृत्तित्वेन भासमानप्रकारसमुदाय एवोल्लेखः' इत्यपि वदन्ति । र्षविरोधीति चिन्त्यमिदम् । प्रागुक्तोल्लेखेति । इदमपि चिन्त्यम् । ज्ञानस्यानिबन्धने च ज्ञानपर्यन्तस्य पूर्वोल्लेखस्य कथमप्यत्रासत्त्वात् । नियतव्यञ्जकसामग्र्यभावेनार्थस्यापि तस्यासत्त्वाच्चेति दिक् । इतोऽपि भ्रान्तिरपि संभवतीति चिन्त्यमिति बोध्यम् । विषया- श्रयसहचराणां संबन्धिनामत्र सत्त्वादाह-सबन्धिषष्ठयन्तेति । षष्ठयन्तार्थसंबन्धीत्यर्थः । क्वचित्तथैव पाठः । यं प्रकृतं राजानम् । एवमग्रेऽपि । जनकतयेति । इदं ज्ञानं चमत्कारीत्यनुभवाकारः । 'भिन्नप्रकार' इति पाठः । भिन्नत्वं प्रकारविशेषणमात्रव्यवच्छेद्यमाह-न त्विति । अन्यतरत्वस्य गुरुत्वाहुर्ज्ञेयत्वाचाह-परे त्विति ।