पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। अथापह्णुतिः- उपमेयतावच्छेदकनिषेधसामानाधिकरण्येनारोप्यमाणमुपमानतादात्म्यमपह्रुतिः। रूपकवारणाय तृतीयान्तम् । अस्यां चोपमेयतावच्छेदकस्य निषेधादुपमेयतावच्छेदकोपमानतावच्छेदकयोर्विरोधो गम्यते । रूपके तु तयोः सामानाधिकरण्यप्रत्ययात्स निवर्तते । उदाहरणम्- 'स्मितं नैतत्किं तु प्रकृतिरमणीयं विकसितं मुखं ब्रूते मूढः कुमुदमिदमुद्यत्परिमलम् । स्तनद्वन्द्वं मिथ्या कनकनिभमेतत्फलयुगं लता रम्या सेयं भ्रमरकुलनम्या न रमणी ॥' इयं चानुग्राह्यानुग्राहकभावापन्नावयवकसंघातात्मकतया सावयवा । निरवयवयं यथा- 'श्यामं सितं च सुदृशो न दृशोः स्वरूपं किं तु. स्फुटं गरलमेतदथामृतं च । नो चेत्कथं निपतनादनयोस्तदैव मोहं मुदं च नितरां दधते युवानः ॥' अत्र प्रतिज्ञातार्थवैपरीत्ये बाधकोपन्यासाद्धेत्वपगुतिः । अस्यां च नञादिभिः साक्षात्परमतसिद्धत्वाद्युपन्यासैश्च किंचिद्दयवधानेन विषयस्य निषेधे बोध्यमाने प्रायशो वाक्यस्य भेदः। मिषच्छलच्छद्मकपटव्याजवपुरात्मादिशब्दैस्तु तस्मिस्तस्यैक्यम् । क्वचिदपह्रवपूर्वकत्वं क्वचिच्चा- अपह्नुतिं लक्षयति-अथेति । छेदकेति । तस्य निबन्धेत्यर्थः । रूपकवारणायेति भ्रान्त्यादेरप्युपलक्षणम् । तदुपपादयति-अस्यां चेति । स विरोधः । भ्रमरकुलनभ्येत्येतदंशेऽतिशयोक्तिरिति प्रक्रमभङ्गोऽत्र काव्य इति बोध्यम् । अत्र स्पष्टत्वालक्षणसमन्वयमुपेक्ष्य भेदमाह-इयं चेति । उदाहृता चेत्यर्थः । वयवकेति । बहुव्रीहिणा संघातविशेषणे । श्याममिति । अंशभेदेनेति भावः । कव्युक्तिरियम् । विपक्षे बाधकमाह-नो चेदिति । अनयोर्दशोः । तदैव पतनकाल एव । 'सदैव' इति पाठान्तरम् । अत्र निरवयवत्वस्य सत्त्वात्प्राग्वदाह-अत्रेति । किंचिदिति । भ्रान्त्यादीत्यर्थः। त-