पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

'रसगङ्गाधरः। २६७ विप्रलम्भोपस्कारकत्वात् । यहा संदेशहरात्संदेशं श्रुतवतो नायकस्य स्वमित्रं प्रतिपद्येदं वाक्यं 'अकरुणहृदय-' इत्यादि तदास्मिन्नेव पद्ये सेति पदव्यङ्गयायाः स्मृतेरुपस्कारके उन्मादे तथाप्यतिप्रसङ्गापत्तेः सादृश्य- प्रयोज्यत्वमावश्यकम् । लक्षणे चात्रैकत्वं विवक्षितम् । अन्यथा वक्ष्यमा- णानेकग्रहीतृकानेकप्रकारकैकविशेष्यकभ्रान्तिसमुदायात्मन्युल्लेखेऽतिप्रस- ङ्गपत्तेः । अत एवैकवचनमपि सार्थकम् । उदाहरणम्- 'कनक इव कान्तिकान्तया मिलितं राममुदीक्ष्य कान्तया । चपलायुतवारिदभ्रमान्ननृते चातकपोतकैर्वने ॥ अत्र चातकगतहर्षोपस्कारकतया तद्गता भ्रान्तिरलंकारः । अत्रैव यदि 'परिफुल्लपतत्रपल्ळवैर्मुमुदे चातकपोतकैर्वने' इत्युत्तरार्धे निर्मीयते तदायमेव भ्रान्तिध्वनिः। यञ्चाप्पदीक्षितैर्लक्षणमुक्तम्- 'कविसंमतसादृश्याद्विषये पिहितात्मनि । आरोप्यमाणानुभवो यत्र स भ्रान्तिमान्मतः ॥' इति । 'तत्र कविसंमतसादृश्यप्रयोज्यो विषये आरोप्यमाणानुभवो यत्र वा- क्संदर्भे स भ्रान्तिमान' इति भ्रान्तिमतो लक्षणं विधाय रूपकव्यावृत्यर्थे पिहितात्मनीत्युच्यते । न चैतघुक्तम् । नहि रूपकवाक्ये आरोप्यमाण- स्यानुभवो वर्ण्यते, किं तु तस्माज्जायते । न चात्रानुभवान्तं भ्रान्तेर्लक्षण- मग्रिमं च भ्रान्तिमतः । तत्र भ्रान्तिलक्षणे रूपकेऽतिव्याप्तेर्वारणाय वि- षये पिहितात्मनीति विशेषणमिति वाच्यम् । अनुभवत्वघटितस्य भ्रा- न्तिलक्षणस्यानुभूयमानाभेदात्मके रूपके कथमप्यप्रवृत्तेः । यदि च रूप- कपदं रूपकबुद्धिपरमिति ग्रन्थसामञ्जस्यं विधीयते, तदापि विषयताव- महापदादिजन्मा अन्यस्मिन्नन्यावभास उन्मादः' इति मतेनेदम् । नन्वत्र विप्रलम्भ- जन्यत्वेनोन्मादस्य कथं तदुपस्कारकत्वमत आह-यद्वेति । अत एव निश्चय इत्यत्रैक- त्वविवक्षणादेव । उच्यत इति । अयं भावः-तद्विशेषणेनारोप्यमाणानुभवस्य स्वार- सिकस्य कविप्रतिभया कल्पनं विवक्षितम् । तस्यैव विषयपिधानसामर्थ्यादिति । अग्रिम चेति । यत्रेत्यायुक्तमित्यर्थः । तत्रेति । तद्वाक्यजानुभवस्य तत्रापि सत्त्वादिति भावः ।