पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६८ काव्यमाला । च्छेदकानवगाहिनि 'मरकतमणिमेदिनीधरो वा तरुणतरस्तरुरेष वा त- मालः' इति संशयेऽतिप्रसङ्गात्, कमलमिति चश्चरीकाश्चन्द्र इति चको- रास्त्वन्मुखमनुधावन्ति' इति भ्रान्तिसमुदायात्मन्युल्लेखेऽतिव्याप्तेश्च । अत्र भ्रान्त्या संकीर्ण उल्लेख इति चेत्, नह्येतावतोल्लेखांशातिव्याप्तिर्न दोषः । नहि दुग्धभागजलभागानां व्यामिश्रतास्तीति दुग्धलक्षणं जलांशातिव्या- प्तिकं कर्तु युक्तम् । यच्चापि भिन्नकर्तृकोत्तरोत्तरभ्रान्तावुदाहृतम्- 'शिाञ्जानैर्मञ्जरीति स्तनकलशयुगं चुम्बितं चञ्चरीकै- स्तत्रासोल्लासलीलाः किसलयमनसा पाणयः कीरदष्टाः । तल्लोपायालपन्त्यः पिकनिनदधिया ताडिताः काकलोकै- रित्थं चोलेन्द्रसिह त्वदरिमृगदृशां नाप्यरण्यं शरण्यम् ॥” इति। तत्र विचार्यते-स्तनकलशयुगे हि न तावन्मञ्जरीसादृश्यं कविसम- यसिद्धम्, येन तन्मूला चञ्चरीकाणां भ्रान्तिरुपनिबध्येत । दोषान्तरमूला तु सा नालंकार इत्यनुपदमेव निरूपितम् । अपि च धर्मिणि कलशरूपका- नुवादेन · मञ्जरीभ्रान्तिरूपमलंकारान्तरमुपनिबध्यमानमुद्वेजकमेव सहृद- यानाम् । नहि सादृश्यमूलैकालंकारावच्छिन्ने सादृश्यमूलमलंकारान्तरं शोभते । यथा 'मुखकमलं तव चन्द्रवत्प्रतीमः' इति प्रागेव निवे- दनात् । प्रत्युत कलशरूपकेण मञ्जरीसादृश्यतिरस्काराच्च । 'तत्रासो- ल्लासलीलाः किसलयमनसा पाणयः कीरदष्टाः' इत्यत्र विधेयाविमर्शा- ननु नामसंशयेऽतिप्रसङ्गः । विषयस्यैवेति प्रतिपादनादत आह-कमलमिति । अत एव वक्ष्यति भ्रान्त्या संकीर्ण इति । अतिव्याप्तेश्चेति । उल्लेखत्वभ्रान्तित्वयोरत्र संकीर्ण- त्वम् । बाधकाभावात्ं । भूतत्वमूर्तत्वयोरिव । नरैर्वरगतिप्रदेत्यत्रोल्लेखत्वस्य, कनक इवे- त्यत्र भ्रान्तित्वस्य सावकाशत्वादिति कश्चित् । वनितेति वदन्त्येतां लोका इति त्वदुदाह- तापहुतिसंकीर्णोल्लेखे उपमेयतावच्छेदकनिषेधसामानाधिकरण्येनोत्थाप्यपगुतिलक्षणाति- व्याप्तिस्तवाप्यस्ति । एवं तत्तदलंकारसंकीर्णे तत्तदसंकरलक्षणस्य सा दुर्वारेति चिन्त्य- मिदमित्यपरे । तावदादौ । उपेति । वर्ण्येतेत्यर्थः । ननु यथाकथंचित्सादृश्यमप्यस्तीत्यत आह-अपि चेति । धर्मिणि स्तनरूपे । मुखकमलमिति रूपकम् । अभ्युपेत्याह- प्रत्युतेति । एवमाद्ये दोषमुक्त्वा द्वितीये दोषमाह-तत्रासोल्लेति । भ्रमरभयजनन- जातचेष्टा इत्यर्थः । विधेयाविमर्शादिति। विधेयस्याकथनादित्यर्थः । उद्देश्यकोटिप्र- विष्टं सर्वमिति भावः । पाणो उद्दिश्य विशिष्टस्य कीरकर्तृकदष्टत्वस्य विधेयत्वे को दोष