पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला। - गनगतत्वरूपवैधर्म्यनिरासकमविद्यमानमपि गगनगलितत्वं शिशिरत्वं चारोप्यते वक्त्रा । एवमादयोऽन्येऽपि प्रकाराः सुधीभिः स्वयमुन्नेयाः । इति रसगङ्गाधरे ससंदेहप्रकरणम् । अथ भ्रान्तिमान- सदृशे धर्मिणि तादात्म्येन धर्म्यरप्रकारकोऽनाहार्यो निश्चयः सादृश्यप्रयोज्यश्चमत्कारी प्रकृते भ्रान्तिः। सा च पशुपक्ष्यादिगता यस्मिन्वाक्संदर्भेऽनूद्यते स भ्रान्तिमान् । अत्र च भ्रान्तिमात्रमलंकारः । भ्रान्तिमानलंकार इति व्यवहारस्त्वौपचारिकः । तथा चाहुः- 'प्रमात्रन्तरधीर्भ्रान्तिरूपा यस्मिन्ननूद्यते । स भ्रान्तिमानिति ख्यातोऽलंकारे त्वौपचारिकः ॥ इति । लक्षणे मीलितसामान्यतद्रुणवारणाय धर्मिग्रहणद्वयम् । रूपकवित्तिवारणायानाहार्य इति । कविभिन्नगत इति वा । संशयवारणाय निश्चय इति । इदं रजतमिति रङ्गविशेष्यकबोधवारणाय चमत्कारीति । कविप्रतिभानिर्वर्तित इत्यर्थः । रङ्गे रजतमिति बुद्धेलौकिकतया न कविप्रतिभानिवर्तितत्वम् । 'अकरुणहृदय प्रियतम मुञ्चामि त्वामितः परं नाहम् । इत्यालपति कराम्बुजमादायालीजनस्य विकला सा ॥' इत्यत्र नायिकासंदेशहरस्योक्ता व्यज्यमानस्योन्मादस्य वारणाय सादृश्यप्रयोज्य इति । न चात्रान्मादस्य प्राधान्यात्सकलालंकारसाधारणे- नोपस्कारकत्वविशेषणेनैव वारणमिति वाच्यम् । तस्यापि पार्यन्तिक- आहार्यबोधस्यैव । ससंदेह इति व्यवहारस्त्वौपचारिकः । भ्रान्तिमानितिवत् ॥ इति रसगङ्गाधरमर्मप्रकाशे ससंदेहप्रकरणम् ॥ अथ भ्रान्तिमन्तं लक्षयति-अथेति । अन्यत्र नैवमित्याह-प्रकृत इति । आदिना मनुष्यग्रहणम् । प्रतिज्ञाविरोधाभावायाह-अत्रेति । औपचारिक इति । भ्रान्तिनिष्ठालंकारत्वस्य तद्वत्यारोपात् । भ्रान्तितद्वतोरभेदारोपाद्वेति भावः । ससंदेह इति व्यवहारोऽप्येवमेवेति प्रागुक्तम् । प्रमेति । कविभिन्नेत्यर्थः । अलंकारे अलंकाराणां मध्ये। आर्षमेकवचनान्तानुरोधिनाह (?)-कवीति । ननु तत्रापि चमत्कारोऽस्त्येवात आह-कवीति । उक्तौ नायकं प्रतीति शेषः । उन्मादस्येति । 'विप्रलम्भ-